________________
अथ प्रदक्षिणां नमस्कारान् जप च कृत्वा स्तुवीत ।
स्तोत्रम् गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् । देवो मन्त्रमयी नौमि मातृकां पीठरूपिणीम् ॥१॥ प्रणमामि महादेवी मातृकां परमेश्वरीम । कालहल्लोहलोल्लोलकलनाशमकारिणीम् ।।२।। यदक्षरैकमात्रेऽपि ससिद्ध स्पर्धते नरः । रवितायेंन्दुकदर्प शंकरानलविष्णुभिः ॥३॥ यदक्षरशशिज्योत्तामण्डितं भुवनत्रयम् । वन्दे सर्वेश्वरी देवी श्रीमहासिद्धमातृकाम् ॥४॥ यदक्षरमहासूत्रप्रोतमेतज्जगत्रयम् । ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम ॥५|| यदेकादशमाधार बोज कोणत्रयोद्भवम् । ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते ।।६।। अकचादिटतोन्नद्धपयशाक्षरवर्गिणीम् । ज्येष्ठाङ्गबाहुहपृष्ठ कटिपादनिवासिनीम् ॥७॥ तांमीकाराक्षरोद्धारां सारासारां परात्पराम् । प्रणमामि महादेवों परमानन्दरूपिणीम् ॥८॥ अद्यापि यस्या जानन्ति न मनागपि देवताः । केयं कस्मात क्व केनेति स्वरूपारूपभावना ॥९॥ वन्दे तामहमक्षय्यां क्षकाराक्षररूपणीम् । देवी कुलकलोल्लासप्रोल्लसन्ती परां शिवाम ॥१०॥ वर्गानुक्रमयोगेन यस्यां मात्राष्टक स्थितम् । वन्दे तामष्टवर्गोत्थां महासिद्धयष्टकेश्वरीम् ॥११॥