________________
॥ प्रातःस्मरणादिगुरुस्तोत्राणि ॥
१.
श्रीनाथादिगुरुत्रयं गणपति पीठत्रयं भैरवं सिद्धौघं बटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् । वीरान्दूष्टचतुष्कषष्ठिनवकं दोशवली पञ्चकं श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ १॥
२
नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे । विद्यावतारसंसिद्धये स्वीकृताने कविग्रह ||१|| नवा नवरूपाय परमार्थस्वरूपिणे । सर्वाज्ञानतमोभेदभानवे चिद्यनाय ते ||२|| स्वतन्त्राय दयाक्लृप्तविग्रहाय शिवात्मने । परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे || ३ || विवेकिनां विवेकाय विमर्शाय विमर्शिना । प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानहेतवे ||४|| पुरस्तात् पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः । सदा मच्चित्तरूपेण विधेहि भवदासनम् ||५|| इत्येवं पञ्चभिः श्लोकः स्तुवीत यतमानसः । प्रातः प्रबोधसमये जपात्सुदिवसं भवेत् ॥ ६ ॥
३ निषक्तमणिपादुकानियमितौधकोलाहलं स्फुरत्किसलयारुणं नखसमुल्लसच्चन्द्रकम् । परामृतसरोवरोदितसरोजसद्रोचिषं
भजामि शिरसि स्थितं गुरुपदारविन्दद्वयम् ||१||
४
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः || १ || ॥ इति प्रातः स्मरणादिगुरुस्तोत्राणि ||