________________
प्रायशो वर्णनात्. एतत्सर्वमग्रे विशिष्टकविवर्णनश्लोकेषु टिप्पण्यां स्फुटीभविष्यति. बिहणकविर्यथा खदेश कश्मीरं परित्यज्य कर्णाटमहीपतेराश्रये जगाम, तद्वदयमपि खदेशं विहाय कान्यकुब्जमहीपालं शिश्रिये. · दशरूपकावलोक-सरखतीकण्ठाभरण-क्षीरखामिकृतामरकोषटीका-मुकुटकृतामरकोषटीका-श्रीमदभिनवगुप्ताचार्यकृतध्वन्यालोकलोचन-काव्यप्रकाश-साहित्यदर्पणशार्ङ्गधरपद्धति-सूक्तिमुक्तावलि-सुभाषितावलि-सुभाषितहारावल्यादिषु राजशेखरश्लोकाः, श्रीकण्ठचरितसमाप्तिसर्गे राजशेखरस्य नाम च वर्तते. एते सर्वेऽपि ग्रन्था अस्मिन्निर्णीतराजशेखरसमयादर्वाचीनाः. केवलं क्षीरस्वामिविषये मनाक्संदेहः. काश्मीरदेशमहीपालस्य जयापीडस्याध्यापकः क्षीराभिधः कश्चन शब्दविद्योपाध्याय आसीत् (राजतरङ्गिणी ४।४८८). स एवामरकोषटीकाकर्ता क्षीरस्वामीति न सम्यक्. यतः क्षीरखामिकृतामरकोषटीकायां 'श्रीभोजः' इति नाम बहुषु स्थलेषु वर्तते. भोजश्चैकादशशतकमध्यभाग आसीत्. तस्मादेकादशशतकमध्यभागादर्वाचीनः क्षीरस्वामी कथमष्टमशतकोत्तरार्धसमुद्भुतस्य जयापीडनृपतेरध्यापको भवितुमर्हति? तस्मात्क्षीरोपाध्यायात्क्षीरखामी भिन्न एव.
-राजशेखरप्रणीता ग्रन्थाः - बालरामायणम् , बालभारतम् (प्रचण्डपाण्डवम् ), कर्पूरमञ्जरी, विद्धशालभञ्जिका चेति ग्रन्थचतुष्टयमेव राजशेखरकृतं प्राप्यते. तत्र बालरामायणं मूलमात्रमेव, बालभारतस्य केवलमङ्कद्वयम् , नारायणदीक्षितकृतटीकासमेता विद्धशालभञ्जिका, वासुदेव-धर्मदास-कामराज-कृष्णसूनुकृताभिष्टीकाभिः समेता कर्पूरमञ्जरी च लभ्यते. बालरामायणे भर्तृमेण्ठ-भवभूति-शंकरवर्मा-अकालजलद-तरल-सुरानन्द-कविराजानाम् कर्पूरमञ्जर्या च मृगाङ्कलेखाकथाकारापराजित-हाल-हरिचन्द्र-नन्दिचन्द्र-कोटिसानां कवीनां नामानि सन्ति. तेषु शंकरवापराजितौ राजशेखरसमकालीनौ, अकालजलद-तरल-सुरानन्द कविराजा राजशेखरस्य पूर्वपुरुषाः. तेषु कविराजो राघवपाण्डवीयकर्ता, भर्तृमेण्ठ-भवभूतिहाक-हरिचन्द्राः प्रसिद्धा एव, नन्दिचन्द्र-कोटिसौ चाप्रसिद्धौ स्तः. पूर्वोक्तग्रन्थचतुष्टयप्रस्तावनासु राजशेखरेण रघुकुलचूडामणिमहेन्द्रपालः स्खशिष्यत्वेन वर्णितः. बालभारतप्रस्तावनायां तु निर्भयनरेन्द्रसूनोमहीपालदेवस्यापि वर्णनमस्ति. निर्भयराजोऽपि राजशेखरस्य शिष्य एवासीत्. 'बालकविः कविराजो निर्भयराजस्य तथोपाध्यायः' इति कर्पूरमञ्जरीप्रस्तावनायाम्. 'विभ्रमराजस्य