________________
प्रथमं जवनिकान्तरम् स्थापकः–ता अप्पा किं ण वण्णिदो तेण ?
पारिपार्श्वकः-सुणदु, वण्णिदो जेव तक्कालव ईणं मज्झम्मि मिअंकलेहाकधाआरेण अवराइदेण । जधा,
बालकई कइराओ णिभरराअस्स तह उवज्झाओ। . इअ जस्स पएहि परंपराइ माहप्पमारूढं ॥९॥ सो अस्स कई सिरिराअसेहरो तिहुअणं पि धवलेंति । हरिणकपाडिसिद्धीअ णिकलंका गुणा जस्स ॥१०॥ महिलाः कामिन्यः । स्थापकःतदात्मा किं न वर्णितस्तेन ? पारिपार्श्वकः
शृणु, वर्णित एव तत्कालकवीनां मध्ये मृगाङ्कलेखाकथाकारेणापराजितेन । यथा,
बालकविः कविराजो निर्भयराजस्य तथोपाध्यायः ।
इत्येतस्य परम्परया आत्मा माहात्म्यमारूढः ॥ यदा तु 'इति यस्य जयैः परम्परामाहात्म्यमारूढम्' इति पाठस्तदा जयैरुत्कषैः । आरूढमिति भावे क्तः । इयं च कारणमाला। सा यथा ( का. प्र. १०।१२०)'यथोत्तरं चेत्पूर्वस्य पूर्वस्यार्थस्य हेतुता । तदा कारणमाला स्यात्' इति । परिकरोsप्यत्र । स यथा (का.प्र.१०।११८)-'विशेषणैर्यत्साकूतैरुक्तः परिकरस्तु सः' इति । द्वितीयपाठे आरोहणस्य चेतनधर्मस्य जयेष्वारोपणादुत्तरोत्तरप्रसारित्वलक्षणया परमकाष्ठापन्नत्वं व्यङ्ग्यम् । सो इति। स एतस्य कविः श्रीराजशेखरस्त्रिभुवनमपि धवलयन्ति । हरिणाङ्कप्रतिसिद्ध्या निष्कलङ्का गुणा यस्य ॥ प्रतिकूलतया सिद्धिस्तत्कार्यकारित्वम् । त्रिभुवनमिति निष्कलङ्का इति च व्यतिरेकः। 'उपमानाद्यदन्यस्य व्यतिरेकः स एव सः ।' (१०।१०५) इति काव्यप्रकाशे। अन्यस्य व्यतिरेको विशेषेणातिरेक आधिक्यं व्यतिरेक इत्यर्थः। 'विस्तरादुत संक्षेपाद्विदधीत प्ररोचनाम्' इत्युक्तत्वात् 'प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया । चेत