________________
बालभारतम् (दुर्योधनः सुरेखायाः कण्ठे परिधत्ते ।) सुनन्दा-(हसन्ती। ) हंहो महाराज दुर्योधन ! युधिष्ठिरकण्ठनिवेशिनमीदृशं हारं समर्थासाहशजनयोग्यं यत्करोषि तन्न रोहिणीवल्लभकुलोचितमनुतिष्ठसि ।
भीमा-साधु सुनन्दे ! साधु । उचितमभिहितम् । सुरेखा-अयि उड्डामरशीले ! द्यूतजितेऽपि यन्त्रणा ।
शकुनि:-(स्वगतम् । ) प्रतिभावती सुरेखा । (युधिष्टिरं प्रति प्रकाशम् । ) अपरः पणः क्रियताम् ।
युधिष्ठिरः-संपादिता तातधृतराष्ट्रस्याज्ञा तदास्ताम् ।
शकुनिः-(विहस्य । ) दुर्योधने क्रीडति कथं धर्मराजो विरमति ! नन्वधुनैव प्रतिज्ञातम्-'आहूतो न निवर्तेय द्यूताय च रणाय च' । युधिष्ठिरः-(सुनन्दामालोक्य सस्मरणम् । ) यद्येवम्,कुर्वन्त्यो नयनरपाङ्गतरलैर्दीर्घायुषं मन्मथं
तन्वन्त्यो हृदि रागिणां रतिमहावल्लीविलासाङ्करम् । न्यस्यन्यो मदिरामदस्य च हठात्कांचिन्मनोहारिता___ मङ्गैर्मुग्धमधूकपाण्डुभिरिमा वाराङ्गना मे पणः ॥ १७ ॥ भीम:-भवतस्तु कः पणः ? दुर्योधनः
सुधावीचीमुचां वाग्भिर्विभ्रमावलिगकुण्डलः । __ ममापि वारनारीणां सरस्मेरो गणः पणः १८॥
(उभौ क्रीडतः।) शकुनि:-जितं जितं महाराजदुर्योधनेन । दुर्योधनः-सुरेखे! त्वमेतासां सुनन्दाप्रभृतीनामधिष्ठात्री भव । सुरेखा-यत्कुरुपतिराज्ञापयति । (प्रणमति ।)