________________
स्थिता माध्वीकपाकत्वान्निसर्गमधुरापि हि । किमपि खदते वाणी केषांचिद्यपि शांकरी ।।
(सूक्तिमुक्तावलिः.) अत्र बालरामायणप्रस्तावनायां गृहीतनामा खसमकालीनः कृष्णशंकरवा राजशेखरस्य विवक्षितः, न तु शंकराचार्यः कश्चिदन्यो वा शंकर इति भाति.
शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरुच्यते । शीलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥
(सूक्तिमुक्तावलिः, शार्ङ्गधरपद्धतिः.) पृथिव्यां प्रथिता गाथा सातवाहनभूभुजा । व्यधुर्धतेस्तु विस्तारमहो चित्रपरम्परा ॥
(सूक्तिमुक्तावलिः.) पार्थस्य मनसि स्थानं लेमे खलु सुभद्रया । कवीनां च वचोवृत्तिचातुर्येण सुभद्रया ॥
(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) 'दुग्धं च यत्तदनु' इत्यादिश्लोकः सुभद्राकृतः सुभाषितावलौ वर्तते.
नदीनां मेकलसुता नृपाणां रणविग्रहः । कवीनां च सुरानन्दश्चेदिमण्डलमण्डनम् ।।
(सूक्तिमुकावलिः.) मेकलसुता नर्मदा. सुरानन्दो राजशेखरस्य पूर्वपुरुष इत्यकालजलदवर्णनश्लोकटिप्पणसमुद्धृते बालरामायणप्रस्तावनापद्ये द्रष्टव्यम्. चेदिदेशो डाहलापरपर्यायः. 'त्रैपुरास्तु डाहलाः स्युश्चैद्यास्ते चेदयश्च ते' इति हैमनाममाला (४।२२). 'डाहकाश्चेदयश्चैद्याः' इति त्रिकाण्डशेषे भूमिवर्गः. 'नीत्वा गङ्गाधरधरतां डाहलाधीशपानि' इति विक्रमादेवचरितम् ( १८९५). ....."