________________
प्रथमोऽङ्कः
बन्दीआकर्णाश्चितचापमण्डलमुचा बाणेन यत्रोदरच्छिद्रोत्सङ्गविनिर्गतेन तरसा विद्धा च राधामुना।
(द्रौपदीमवलोक्य ।) तुल्यं मोहनशोषणप्रभृतयः प्रक्षेपकुण्ठक्रमाः
कामेन द्रुपदात्मजाहृदि हठान्यस्ताश्च पञ्चेषवः ॥ ७८ ॥ सखी-आश्चर्यमाश्चर्यम् । असलिलात्कुवलयोत्पत्तिरकुसुमं कुसुमकोदण्डकाण्डममन्त्रतन्त्रं मनोमोहनमिन्द्रजालमस्या दृष्टिविप्रवीरवदने निष्पतन्ती न विरमति । अर्जुन:-कथं राधावेधानन्तरमियमस्मासु स्निह्यति ? यतः,
जैत्रं तन्त्रं कुसुमधनुषः प्रेमसर्वस्वदूताः __ सत्यंकाराः प्रणयक्तितेस्तुष्टये पुष्टियोगाः। विन्यस्यन्तः श्रवसि सुतनोर्मेचकाम्भोजभूषा
मुत्कण्ठन्ते मयि निपतितुं नर्तिताक्षाः कटाक्षाः॥ ७९॥ बन्दी-हा हा धिक्कष्टम् । ध्रुवमिदमुपदिष्टं कैश्चिदाचार्यपादै
र्यदुत जनकशोकस्यैकहेतुः कुमारी । अकलितकुलशीलोऽप्येष यत्कोऽपि धन्वी
द्रुपददुहितुरस्या वाञ्छति स्वामिभावम् ॥ ८॥ अर्जुनः हहो बन्दिवृन्दारक, किमत्र कुलान्वेषणेन । किं वा मे शीलपालोचनया । धनुरारोपणपणपरिणेया द्रौपदी ।
(नेपथ्ये ।) हहो ब्राह्मण, त्वामेवं समुदिता नृपतयो भाषन्ते
सायकश्च त्वया मुक्तो यन्त्रं वा तेन चाहतम् ।
तन्मा वृथा विकत्थख न राधां विद्धवानसि ॥ ८१॥ (पुनः साक्षेपम् ।)