________________
मणिपति चरित्रे सेडुकदृष्टान्तः मग्गंमि तुरयखरखुरखुनो सुहभावसंगओ मरिओ। नामेण दुद्दरको देवो जाओ इमो सो य ।। २८ ॥ तुह मणपरिक्खणत्थं सुरिंदवयणं असद्दहंतो य । रसियासेवाइयं मायं काऊण एस गओ ॥ २९ ॥ अह सेणिएण भणियं 'किं पभणइ सामि मरसु इच्चाई' । कहइ जिणो परमत्थं 'इह दुक्खं जाहि तं मोक्खं ॥ ३० ॥ एवं संपइ भणिओ अभओ इह जिणगुरुण भत्तिपरो । परलोए सव्वढे होही एगावयारो व ॥ ३१ ॥ तं पुण इह धम्मरओ परत्थं नरयंमि जाहिसि नरिंद!। सूरिअओ इह महिसे हणइ मओ वच्चिही नरयं ॥ ३२ ॥
मार्गे तुरगखरखुरखुतः शुभभावसङ्गतो मृतः । नाम्ना दर्दुराङ्को देवो जातोऽयं स च ॥ २८ ॥ तव मनःपरीक्षार्थं सुरेन्द्रवचनमश्रद्दधानश्च । रसिकासेवादिकां मायां कृत्वा एष गतः ॥ २९ ॥ अथ श्रेणिकेन भणितं किं प्रभणति स्वामिन् ! म्रियस्व इत्यादि । कथयति जिनः परमार्थमिह दुःखं याहि त्वं मोक्षम् ॥ ३० ॥ एवं संप्रति भणितोऽभय इह जिनगुरुणां भक्तिपरः । परलोके सर्वार्थे भविष्यति एकावतारो वा ॥ ३१ ॥ त्वं पुनरिह धर्मरतः परत्रं नरकं यास्यसि नरेन्द्र ! । सौरिक इह महिषान् हन्ति मृतो व्रजिष्यति नरकम् ॥ ३२ ॥