________________
युक्तिकल्पतरौकुम्भादावथ हंसादौ नवरत्नानि रक्षयेत् । द्वात्रिंशन्मौक्तिको माला हात्रिंश(५)त्तत्र दापयेत् । ४५८ ॥ सर्वोपरि ब्रह्म-जाति विशुद्ध होरकं न्यसेत् । दण्डान्त कुरुविन्दांश्च पद्मरागांश्च विन्यसेत् ॥ ४६० ॥ स्वामिहस्तक-मानेन चामरः सित इष्यते । इत्ययं नवदण्डाख्यः छत्रराजो महोभुजाम् ॥ ४६१ ॥ अभिषेके (६) बिवाहे च ग्रहाणां प्रोति-बईनः । पताका नवदण्डाग्रे राज्ञोऽष्टाङ्गली-सम्मिताः ॥ ४६२ ॥
अथ कुम्भादिः । कलशो दर्पणचन्द्रः पद्मकोषो यथाक्रमम् । ब्रह्म-क्षत्रिय-विट-शूद्र-जातीनां नवदण्डके ॥ ४६३ ॥ हंसश्चास: शुक: केको व्याघ्रः सिंहो गजोहयः । आदित्यादि-दशाजानां एतेस्युनवदण्डगाः ॥ ४६४ ॥ चामरश्वासपक्षानि चित्रवस्त्राणि च क्रमात् । जाङ्गलादि-महीन्द्राणां भवन्ति नवदण्डके (७) ॥ ४६५ ॥ शुक्ल-रक्त-पोत नोलं वस्त्रमण्डप-संस्थितम् (८)। शुक्लवर्ण-वस्त्र सर्वेषामुपरि प्रणिधीयते ॥ ४६६ ॥ शुक्ला रक्ताः पौत-नौला: पताकाश्चापि रज्जवः । चामराणां वर्णभेद एवमेव प्रकाशित: ॥ ४६७ ॥ नानावर्णस्तु (e) सर्वेषां सर्लनैवोपयुज्यते ॥ ४६८ ॥
(५) तत्प्रदापयेत् इति (ख) पुस्तक पाठः । (६) अभिषेके इति (ख) पुस्तक पाठः । (७) नवदण्डकाः इति (ख) पुस्तक पाठः । (८) संशुभम् इति (ग) पुस्तक पाठः । (2) वर्णन्तु इति (ख) पुस्तक पाठः ।