________________
आसनयुक्तिः ।
इदन्तु सामान्यं सर्वसम्मतच काठ - नियमस्तु पूर्वबदेव ॥ ४०५ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ खट्टोद्देशः ॥
अथ षौठोद्देशः ।
धातु-पाषाण- काठैश्च पीठस्त्रिविध उच्यते । धातवश्च शिलाश्चैष काष्ठानि विविधानि च । तदत्र संप्रवक्ष्यामि यथैषामुपपद्यते ( 2 ) ॥ ४०६॥
अथ मानम् ।
हस्तद्दयन्तु दैर्घ्येण तदर्डे परिणाहतः ।
तदर्हेनोन्नतः पीठ: 'सुख' इत्यभिधीयते ॥ ४०७ ॥ हस्तद्दय-दयाधिक्यात् पञ्चपोठा भवन्ति हि ।
५७
सुखो (१०) जयः शुभः सिद्धिः सम्पश्च ति यथाक्रमम् ॥४०८ ॥ धनभोग-सुखैश्वय्य-वान्छितार्थ-प्रदायकः ।
सम-दीर्घ- सुखावाप्तिर्विषमे विषमापदः ॥ ४०८ ॥ आयाम-परिणाहाभ्यां हस्त- इयमितो हि यः । 'राजपीठ' इति ज्ञेयः सकलार्थ - प्रसाधकः । अत्राभिषेक-मिच्छन्ति चितिपस्य पुराविदः ॥ ४१० ॥ दैयनति-परिणाहैः षडहस्तमितो हि यः ।
राज्ञां चित्त प्रसादार्थं केलि - पौठाभिधानकम् ॥ ४११ ॥
(2) उपयुज्यते (उपगद्यते) इति (ख)- (ग) पुस्तक पाठः । (१०) सुखा इति (ख)- (ग) पुस्तक पाठः ।
८