________________
युक्तिकल्पतरोएकाचेद्दक्षिणशानाद् हेच दक्षिण-पश्चिमे । तिस्रश्चेत् पूर्वतोहोना चतुःशालं (३) सुखावहम् ॥ ३१३ ॥ पश्चिमास्यं यजेत्वेश्म सिंहेतूदङ्मुखं शुभम् । पूर्वालयं वृषस्थाने दक्षिणाभिमुखंगते ॥ ३१४ ॥ पदाघातः परघातः पयाघात स्तथैवच । जलदोषो वृक्षदोषो दोषा इत्येवमादयः ॥ ३१५ ॥ गच्छतां पादतान(ल स्य श्रवणं यदिवेश्मनि । पदाघातो नाम-दोषः पुत्र-पौत्र धनापहः ॥ ३१६ ॥ परिखादण्डयोर्घातो वास्तुनोः प्रतिवेशिनोः । पर-घातो नामदोषः कुलवीर्य-धनापहः ॥ ११७ ॥ पथाघातो नामदोषः ( ४ ) आघातोवास्तुनः पथः ॥ स हन्ति भोगं वंशञ्च तस्यभेदमतः शृणु ॥ ३१८ ॥ एकमाद्य (५) मुखं ( ६ ) कुर्य्यात् दिपथं कुलवईनम् । त्रिपथं कुलनाशाय सब्बनाशश्चतुष्पर्थ ॥ ३१८ ॥ खवाव्यां परवाव्याञ्च यस्तिष्ठति जलाशयः । तद्दोषो जलदोषःस्यात् स हन्ति कुल-सम्पदः ॥ ३२० ॥ समृद्धिमान् (७) सुखेश्वर्य-(८) मृत्युक्ल श भयामया: ()। एते जलाशये दोषा पूर्वादि दिक्षुच क्रमात् ॥ ३२१ ॥
(३) शालं सुखावहःइति (क) पुस्तक पाठः । (४) नमेदेषः इति (ख) पुस्तकः पाठः । (५) एकमास्य(एकमई)मुख इति (ख) पुस्तक पाठः । (६) सुखम् इति (ख)-(ग) पुस्तक पाठः । (७) (शु)द्धिमान् इति (क)-(ख) पुस्तक पाठः । (८) मुखैश्चर्य इति (ख) पुस्तक पाठः । (2) क्लशभयावहः इति (ख) पुस्तक पाठः ।