________________
२६
युक्तिकल्पतरौ -
परदारेषु यो दोष स्तथा पर-पुरीषु च । यदिच्छेच्छाश्वतीं लक्ष्मोन्तदेतत् उभयन्त्यजेत् ॥ ६७४ ॥ निज - लग्नं दशामान-मिते निजकृते नरे (१) । नगरे यो वसेद्राजा लक्ष्मीस्तस्यैव शाखती १७५ ॥ इति भोजराजोये युक्ति कल्पतरौ नगरो युक्तिः ॥
अथ बास्तुयुक्तिः ।
तत्त्रस्थान-निर्णयः 1
नदी श्मशान शैलानां वनस्य निकटे तथा ।
न वास्तुकर्म कुर्व्वीत न इन्द- नगरान्तयोः । १७६ ॥ तव दिनिर्णयः ।
राक्षसानिल-वीनां यमस्य दिशि वेश्मनः ।
नारम्भं कारयेद्राजा भोरुग्दाह-क्षयप्रदम् ॥ १७७ ॥ तथाहि,
भोगः कीर्त्तिर्धनं रोगः स्थिरता च भयङ्करः ।
दाह इत्येष कथितो दिशि वास्तु-फलोद्भवः ॥ १७८ ॥ भोजे च
लग्ने जायते राजा तस्य लग्नस्य यः पतिः ।
या दिक् तस्य नृपस्तस्यां वास्त्वारम्भ' समाचरेत् ॥ १७८ ॥
--
(१) नवे इति (ख) पुस्तक पाठः ।