________________
युक्तिकल्पतरौईशान-पूर्व-प्लवनः मध्यस्थान समुन्नतः । रोगकद्दक्षिण-प्लावी धनदश्चोत्तर-प्लवः ॥ १५६ ॥ पश्चिम-प्लवनो ग्राम सुख-सम्पत्ति-नाशनः । मध्ये निम्नो दरिद्रत्वं प्रान्ते निम्नः सुखं वहेत् ॥ १५७ ॥ त्रिपथाद्राजदण्डेषु राज-च्छत्रे चतुष्पथे। राजकाण्डे मण्डपिका सरसो राज-पूरुषे ॥ १५८ ॥ राजधान्यन्तरे हट्ट'(ट्ट) राजक्षेत्रे च दुग्धकम् (५) । मध्ये साधुमृदुभिषक् दैवज्ञान् वासयेदथ ॥ १५९ ॥ प्रान्ते म्लेच्छान्त्यज-क्रुर वीर सैनिक कर्कशान् । गोपुर सैनिकान् वीरान मन्त्रिणो भवनान्तिके ॥ १६० ॥ मन्त्रिण: (६) प्रतिवेशित्वं कदाचिदपि नाचरेत् । तयोहि प्रतिवेशित्वे दुम्मन्त्रोऽपि च जायते ॥ १६१ ॥ नियोगिनां स्थितिं कुर्य्यावगरे चान्तरेऽन्तरा। नियोगि-मन्त्रिणोर्ट ष्टिः (७) कार्यध्वंसाय कल्पते ॥ १६२ ॥ मन्त्रिणोऽदूरवसति: (८) कर्म कुर्य्यान सत्त्वरम् (c)। नवकं (१०) नवकदारं नै कहारं समारभेत् ॥ १६३ ॥ न विषमं नाविषमं न समं नासमन्तथा। न मध्ये हस्तिनां वासो न प्रान्त वाजिनान्तथा । १६४ ॥
(५) दुग्धकम् ? (दुह्यकम, दुद्धकम् ) इति (ख)-(ग) पुस्तक पाठः । (६) मन्त्रिणोः इति (ख) पुस्तक पाठः । (७) -दृष्टः इति (ख) पुस्तक पाठः । (८) दूरवसतिः इति (ग) पुस्तक पाठः । (2) निसत्वरं इति (ख) पुस्तक पाठः । (१०) नरकं इति (ख) पुस्तक पाठः।