________________
नौतियुक्तिः। मौलभूतं श्रेणीवद्धं संहतन्तु स्मृतम्बलम् । . पूर्व पूर्व गरोयस्तु बलानां व्यसनन्तथा ॥ ४४ ॥ रथो बलं समे देशे गजस्तु विषमे बलम्।। जाङ्गले बलमखाश्च बलं नौका जलमुते ॥ ४५ ॥ पदातयस्तु मर्वत्र बलं स्थात् पृथिवीभुजः।। राजा युद्धाययुज्येत यदन्यहिविधं बलम् ॥ ४६ ॥ सर्व पत्तिबलाधीनं तस्मात्पत्ति बलं बलम् ॥ ४७ ॥
अथ यानम् । चतुष्पदश्च हिपदं विपदम्बहुपादकम्। चतुर्विध मिहोद्दिष्टं यानं भूमिभुजोमतम् ॥ ४८ ॥ गजाखादि चतुष्पादं दोलादि विपदम्भवेत् । नौकाद्यं विपदं ज्ञेयं रथाद्यं बहुपादकम् ॥ ४ ॥ व्योमयानं* विमानं वा पूर्वमासोन्महीभुजाम् । यथानुगुण-सम्पवानेता नाहुः सुखप्रदान् ॥ ५० ॥
अथ यात्रा।
गुणातिशयसम्पन्नः शव॑याया जिगीषया ।
यदि पश्चाप्रकोपेण यदि राष्ट्रेण कण्टकाः ॥ ५१ ॥ + श्लोकार्द्ध (क)-(ख) पुस्तके नास्ति । - "विमानं हंससंयुक्तम्” मार्कण्डेयपुराणे । 'सर्वेभ्योऽवसरन्ददाति पुष्पकवत्' इति परिमले । एवमेव भारतरामायणादौ विमाननामास्ति । केषाशिहिदुषां नये पुष्पकविमान व्योमयानानि एकार्थवोधकामि ।