________________
२२५
नौयानयुक्तिः। अतः साईमितायामा तदई-परिणाहिनी । त्रिभागणोत्थिता नौका मध्यमेति प्रचक्षते ॥ ८१ ॥ क्षुद्राथ मध्यमा भीमा चपला पटलाऽभया (१)। दीर्घा पत्रपुटा चैव गर्भरा मन्थरा तथा ॥ ८२ ॥ नौकादशकमित्युक्तं राजहस्तैरनुक्रमम् । एकैकवद्धः (बुद्धेः) सा.श्च विजानीयाद इयं हयम् ॥ ८३ ॥ उन्नतिश्च प्रवीणा च हस्तादवांश-सम्मिता । अत्र भीमाऽभया चैव गर्भरा (२) चाशुभप्रदा ॥ ८४ ॥ मन्थरा परतो यास्तु तासामेवाम्बुधौ गतिः । तासां गुणस्तु संक्षेपात् दृढ़ता च प्रकीर्णता ॥ ८५ ॥
__ अथ विशेषः । लौहताम्रादिपत्रण कान्तलोहेन वा तथा। दीर्घा चैवोन्नता चेति विशेष द्विविधा भिदा ॥ ८६ ॥
तत्र दीर्घा यथा,राजहस्त हयायामा अष्टांश-परिणाहिनी। • नौकेयं दीर्घिका नाम दशाङ्गेनोवतापि च ॥ ७ ॥ दीर्घिका तरणिर्लोला गत्वरा गामिनो तरिः । जवाला प्लाविनी चैव धारिणी वेगिनी तथा ॥ १८ ॥ राजहस्तैकैकबद्धा(या) नौकानामानि वै दश । उन्नतिः परिणाहश्च दशाष्टांशमिती क्रमात् ॥ ८ ॥ अत्र लोला गामिनी च प्लाविनी दुःखदा भवेत् । लोलाया मानमारभ्य यावद्भवति गत्वरा ॥ १० ॥
(१) पटलाभिषा इति (क) पुस्तकपाठः । (२) न गुरा इति (ख) पुस्तकपाठः ।
२८