________________
युक्तिकल्पतरोवृक्षायुर्वेदगदिता वृक्षजातिश्चतुविधा। समासेनैव गदितं तेषां काष्ठं चतुर्विधम् ॥ ८३ ॥
तयथा। लघु यत् कोमलं काष्ठं सुघटं ब्रह्मजाति तत् । दृढ़ाङ्ग लघु यत् काष्ठमघटं क्षत्रजाति तत् ॥ ८४ ॥ कोमलं गुरु यत् काष्ठ वैश्यजाति तदुच्यते । दृढ़ाङ्ग गुरु यत् काष्ठ शूद्रजाति तदुच्यते । लक्षणहययोगेन दिजातिः काष्ठसंग्रहः ॥ ८५ । क्षत्रियकाष्ठेर्घटिता भोजमते सुखसम्पदं नौका। अन्ये लघुभिः सुदृढ़े : विदधति जलदुष्पदे(१)नौकाम् ॥ ८६ ॥ विभिनजातिहयकाष्ठजाता न श्रेयसे नापि सुखाय नौका। नैषा चिरं तिष्ठति पच्यते च विभिद्यते वारिणि मज्जते च ॥८७॥
न सिन्धुगाद्याहति २) लौहवन्ध', तल्लोह-कान्तै: हियते हि लौहम् । विपद्यते तेन जलेषु नौका; गुणेन वन्ध निजगाद भोजः ॥ ८८ ॥
अथ लक्षणानि। सामान्यञ्च विशेषश्च नौकाया लक्षणदयम् ॥ ८८ ॥
तत्र सामान्यम्। राजहस्तमितायामा तत्यादपरिणाहिनो। तावदेवोन्नता नौका क्षुद्रेति गदिता वुधैः ॥ ८० ॥
(१) जलदुष्पदैः इति (क) पुस्तकपाठः । (२) न सिन्धुगाह्यर्हति लौहवन्ध इति (ख) पुस्तक पाठः ।