________________
२२२
युक्तिकातरोदश (१) ध्वजास्तेषु चाष्टौ स्वामिहस्तहयोव्रताः । पश्चादने ध्वजौ राजश्चतुर्हस्तमितौ मतौ ॥ ७१ ॥ मणिचामरपक्षाणां निर्णयो निष्यताकवत् । निर्ध्वजश्चाष्टदोलो यः शिविकेति स गद्यते। मणि कुम्भमुखादीनां नियमो नवदण्डवत् ॥ ७२ ॥
इत्यष्टदोल-कथनम्।
एवं हादश षोड़श-विंशति दोलादिकाः (शानया) कार्याः । मानं साईद्विगुणितं माईत्रिगुणितं युक्तामेतेषाम् ॥ ७३ ॥ विंशतिदोलात्परतो भोजमते सम्भवेट्यानम् । यानं वनुयोज्यं वहुगुणमेतज्जगाद वै व्यासः ॥ ७४ ॥ भविष्योत्तरेऽपि,यदुक्तं हिपदं यानं तेन मानेन यो नृपः । खयानं कुरुते दिव्यं स चिरं सुखमश्न ते ॥ ७५ ॥ खयोगयुक्तायानस्थो भोगमाप्नोति मानवः । परयौगिकयानस्थः क्ले शमाप्नोति पुष्कलम् ॥ ७६ ॥ यो दम्भादथवाऽज्ञानाद् यानं प्रकुरुतेऽन्यथा । तस्यैतानि विनश्यन्ति आयुर्विद्या यशोधनम् ॥ ७७ ॥ प्रधानं यानमाश्रित्य नियमोऽयं समाश्रितः। नाप्रधाने निर्णयोऽस्ति तल्लिङ्गन्तु मनोजता ॥ ७८ ॥
इति यानयुक्तो विपद-यानोहेशः ।
(१) कुश इति (क) पुस्तक पाठः ।