________________
यानयुक्तिः।
२२१ विजयो मङ्गलो भव्यो वितस्त्येकैकवद्धितः । त्रिविधानां महोन्द्राणां यानत्रयमुदाहृतम् ॥ ६१ ॥ अष्टाभिरुह्यते यस्तु अष्टदोलमुशन्ति(तं) च । सोपानहितयञ्चात्र विज्ञेयं शिल्पि-निर्मितम् ॥ ६२ ॥ भोजस्तु,अष्टाभिर्वाहकैदण्डैः षभिस्तु दशभिर्घटैः। स्तम्भस्तु दशभिर्जेयमष्टदोलं महीभुजाम् ॥ ६३ ॥ तद्भेदा जयकल्याणवीरसिंहा यथाक्रमम् । चतुर्विधानां भूपानां अष्टदोलाः प्रकाशिताः ॥ ६४ ॥ षड़ भिहस्तैर्मितायामः परिणाहश्चतुर्भुजः । चतुर्हस्तोव्रतो राज्ञामष्टदोलं जयं विदुः (१) ॥ ६५ ॥ आयामपरिणाहाभ्यां पञ्चहस्त मितो हि यः । कल्याणाख्योऽष्टदोलोऽयं (२) चतुर्हस्तमितोबतिः ॥ ६६ ॥ सप्तहस्तायत: कार्य प्रवरे पञ्चहस्तकः । पञ्चहस्तोव्रतो वौरथाष्टदोलो महोभुजाम् ॥ ६७ ॥
आयामपरिणाहाभ्यामष्टहस्तमितो हि यः । सिंहनामाष्टदोलोऽयं विज्ञेयः षड़ भुजोत्रतः । ६८ ॥ सर्वोऽथ विविधः प्रोक्तः सच्छदिश्चापि निश्छदिः । काष्ठवस्त्रघटादीनां मणीनां चामरस्य च ॥ ६८ ॥ चतुर्दोलवदुन्नेयो नियमोऽन्योपि सूरिभिः । पूर्वबविश्छदेर्मानं (३) ध्वज-मानमिहोच्यते ॥ ७० ॥
(१) -च यां विटुः इति (क) पुस्तक पाठः । (२) सिंहानामाष्टदोलोऽयं इति (ख) पुस्तक पाठः । (३) पूर्ववनिश्चदिर्यानं इति (ग) पुस्तकपाठः ।