________________
युक्तिकल्पतरो
- भोजोऽप्याह। पार्थिवादिद्गः सर्बचतुर्जातिर्भवेत् पृथक् । सुशृङ्गास्तनुलोमानो ब्राह्मणा मृगजातयः ॥ ८८ ॥ क्रछा: पश्वरि (१) शृङ्गाय क्षत्रियाः खरलोमशाः । आवर्त शृङ्गास्तनवो हरिणा वैश्यजातयः ॥ २० ॥ कुशृङ्गा वाप्यशृङ्गा वा शूद्राः खरतनूरुहाः । अश्वानां ये गुणा दोषास्ते ज्ञेया हरिणेष्वपि ॥ ८१ ॥ तथापि दोषाः पञ्चामो वक्ष्यन्ते हरिणाश्रयाः । नेत्रयोरन्तरे यस्य लोमावर्ताः स पापक्वत् ॥ ८२ । विषमौ विकतो शृङ्गो यस्य स क्षेमनाशनः । भावतः पृष्ठतो यस्य पानामि-मभिविन्दति ॥ १३ ॥ पश्चाई यस्य वावर्तस्तो त्याज्यौ भयकारको। वर्णनेत्रपदादीनां वैकताइन-नाशनः ॥ ८४ ॥
गायः। दोषवन् मृगजातीनां विजातीनामथापि वा। दर्शनात् स्पर्शनात् चैव गन्धादानाच्च पोषणात् । भवेयुर्विपदः सर्वास्तथा चैवाद्य पोषणात् ॥ ४५ ॥
शङ्खोऽपि। हरिणपोषणतो धरणीभुजांनहि भवेन्मरुद्भव-पोड़नम् । न परिवहिरजोरिपुजं भयं तदव तं हरिणं गुणिनं नृप ॥१६॥ इति श्रीभोजराजोये युक्तिकल्पतरौ मृगपरीक्षा।
(१) पशुरि इति (क) पुस्तक पाठः ।