________________
१८१
प्रश्वयुक्तिः । नौराजना वन्दितानां नभयं विद्यते कचित् । नोराजना-विहीनानां नश्येयुः सर्बसम्पदः ॥ १८ ॥
तथा च वात्स्यः। ये भूमिपाला: प्रतिवमरान्ते, कुबन्ति नीराजन कर्मसम्यक् । ., तेषां न लक्ष्मीः क्षयतामुपैति,
साम्राज्य लक्ष्मीः करगैव तेषाम् ॥ २० ॥ एवं नीराजनं कत्वा (१) राजा प्रस्थानमाचरेत् । प्रस्थानं यानतोयस्मात्तस्मादयानं निरूप्यते ॥ २१ ॥ चतुष्पदं दिपदञ्च अ(खा)पदञ्चेति तविधा। यानेषु वाहिनो मुख्या निर्दिष्टाः सर्बसन्मताः । अतस्तेषां प्रवक्ष्यामि लक्षणत्वमतः परम् ॥ २२ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ नौराजनविधिः ।
अथाश्वपरीक्षा। सपक्षा राजिनः पूर्व संजाता व्योमचारिणः । गन्धर्वेभ्यो यथाकामं गच्छन्ति च समन्विताः ॥ २३ ॥ इन्द्रादेशाच्छालिहोत्रस्तेषां पक्षमथाच्छिनत्। . ततः प्रभृति निष्पक्षा स्तुरङ्गा धरणीं गताः ॥ २४ ॥ उत्तमा मध्यमा नीचाः कणीयांसस्तथा परे । चतुर्दा वाजिनो भूमौ जायन्ते देशसंश्रयात् ॥ २५ ॥
(१) त्यक्ता इति (क) पुस्तक पठः ।