________________
युक्तिकल्पतरोपद्मरागगतः स्वच्छो जलविन्दुर्यथा भवेत् । तथा मरकतछाया श्यामला हरितामला ॥ ५२
अथ दोष-गुणाः। दोषाः सप्त भवन्त्यस्य गुणाः पञ्चविधा मताः । अस्निग्ध रूक्षमित्युक्तं व्याधिस्तम्य धृते भवेत् ॥ ५३ ॥ विस्फोट: स्यात् सपिड़के तत्र शस्त्रहतिर्भवेत् । स पाषाणे भवेदिष्टनाशो मरकते धृते ॥ ५४ ॥ विच्छायं मलिनं प्राहुर्वायते नतु धार्यते । शर्करं कर्करायुक्त पुत्रशोक-प्रदं धृतम् ॥ ५५ ॥ जरठं (१) कान्तिहीनन्तु दंष्ट्रिवतिभयावहम् । कल्माषवर्ण धवलं ततो मृत्यु-भयम्भवेत् । इति दोषाः समाख्याता वर्ण्यन्तेऽथ महागुणाः ॥ ५६ ।
अथ गुणाः । निर्मलं कथितं स्वच्छं गुरु स्याद् गुरुतायुतम्। स्निग्ध रूक्षविनिर्मुक्त मरजस्कमरेणुकम् ॥ ५७ ॥ सुरागं रागवहुलं मणे: पञ्चगुणा मताः । एतैर्युक्तं मरकतं सर्वपाप भयापहम् ॥ ५८ ॥ . गजवाजि-रथान्दत्त्वा विप्रेभ्यो विस्तराब्धि मे । तत्फलं समवाप्नोति शुद्धे मरकते कृते ॥ ५६ ॥ धनधान्यादि-करणे तथा सैन्य-क्रियाविधौ ॥ ६ ॥ विषरोगोपशमने कर्मस्वाथर्वणेषु च । शस्यते मुनिभिर्यस्मादयं मरकतो मणि: ॥ ६१ ॥
(१)जठरं इति (ख) पुस्तक पाठः ।