________________
१२८
मरकतयुक्तिः। सर्वमन्त्रौषधिगुणैयंत्रशक्यं चिकिषितम्। महाहि-दंष्ट्राप्रभवं विर्ष तत्तेन शाम्यति ॥ ११ ॥ अन्यमप्याकरे यत्र यहोषैरपवर्जितम्। जायते तत्पवित्राणामुत्तमं परिकीर्तितम् ॥ ४२ ॥ प्रत्यन्तहरिहण कोमलमचिविभेद जटिलञ्च । काञ्चनचूर्णेनान्तःपूर्णमिव लक्ष्य ते यच्च ॥ ४३ ॥ युक्त संस्थानगुणैः समरागं गौरवेण विहीनम् । सवितुः करसंस्पर्शात् छूरयति सर्वाश्रमं दौस्या ॥ ४४ ॥ हित्वा च हरितभावं यस्यान्तर्विनिहिता भवेहीप्तिः । अचिरप्रभा प्रभाहत नवशाहल-सबिभा भाति ॥ ४५ ॥ यच्च मनसः प्रसादं विदधाति निरोक्षितमतिमात्रम् । तन्मरकतं महागुणमिति रत्न विदां मनोहत्तिः ॥ ४६ ॥ यस्तु भास्करसंस्पर्शास्त-न्यस्तो महामणिः। रञ्जयेदात्म-पादैस्तु महामरकतं हि तत् ॥ ४७ ॥ चतुर्दा जातिभेदस्तु महामरकते मणौ। छायाभेदेन विज्ञेयो चतुर्वर्ण (ग)स्य लक्षणैः ॥ ४८ ।
अथ मरकतमणेश्छाया। भवेदष्टविधा छाया मणेमरकतस्य च । वहि-पुच्छसमाभासा चाष-पक्ष-समापरा ॥ ४ ॥ हरित्-काच-निभा चान्या तथा शैवाल-सबिभा। खद्योत-पृष्ठ-संकाशा वालकौरसमा तथा ॥ ५० ॥ नवशाहलसच्छाया शिरीष-कुसुमोपमा। एवमष्टौ समाख्याताश्शाया मरकतात्रयाः ॥५१॥ छायाभियुक्तमताभिः श्रेष्ठं मरकतम्भवेत् ।