________________
युक्तिकल्पतरोप्रमाणताल्पं गुरुयद् घनमित्यभिधीयते ॥ ७८ ॥ कलङ्गादि-विहीनन्तदत्यच्छमिति कोर्तितम् । ब्रह्म-शूद्रं कलाकारश्चञ्चलो यत्रदृश्यते ॥ ७८ ॥ कलिलं नामतद्राज्ञः सर्व-सम्पत्ति-कारकम् । विश्लिष्टाङ्गन्तु वैदूर्य व्यङ्गमित्यभिधीयते ॥ ८० ॥ गुणवान् वैदूर्य-मणिर्योजयति स्वामिनं वरभा(भो)ग्यैः । दोधैर्युक्तो दोषैस्तस्माद् यत्नात् परीक्षेत । ८१ ॥ कर्करं कर्कशम्बास: कलको देह इत्यपि । एते पञ्च महादोषा वैदूर्याणामुदीरिताः ॥ ८२ ॥ शर्करायुक्तमिव यत् प्रतिभाति च कर्करम् । स्पर्शेऽपि च यत्तज्ज्ञेयं कर्कशं वधुनाशनम् ॥ ८३ ॥ भिन्न चान्ति-करस्त्रासः स कुर्यात् कुलं-संक्षयम् । विरुद्ध-वर्णो यस्याझे कलङ्गः क्षय-कारकः ॥ ८४ ॥ मलदिग्ध इवाभाति देहो देह-विनाशनः ॥ ८५ ॥
जयति यदि सुवर्ण त्यागहीनं यदा वा, वहुविध-मणिधारी भूपतिर्वा यतिर्वा । दधदपि धृतदोषं जातु वैदूर्यरत्नम् ;
प्रतिशत-फलरूप पातमेष्य(ध्य)त्यवश्यम् ॥ ८६ ॥ गिरिकाच-शिशुपालौ काच-स्फटिकाश्च भूमिनिर्भिवाः । वैदूर्य-मणेरेते विजातयः सनिभाः सन्ति ॥ ८७॥ लिख्याभावात् काचं लधुभावाच्छशुपालकम्बिद्यात्। गिरिकाचमदीप्तित्वात् स्फटिकं वर्णोज्ज्वलत्वेन ॥ ८८ ॥ जात्यस्य वर्णस्य मणेर्नजातु विजातयः सन्ति समानवाः । तथापि नानाकरणार्थमेवं भेदप्रकारः परमः प्रदिष्टः ॥ ८ ॥ सुखोपलक्ष्यश्च सदा विचार्यो ह्ययं प्रभेदो विदुषा नरेण ।