________________
११२
युक्तिकल्पतरो
सुस्निग्ध' मधुरच्छायं मौक्तिकं सिंहलोद्भवम् ॥ ८६ ॥ पारलौकिकसम्भूतं मौक्तिकं निविड़ गुरु । प्रायः सशर्करं ज्ञेयं विषमं सार्ववर्णिकम् (१) ॥ ८० ॥ सौराष्ट्रकभवं स्थलं वृत्त ं स्वच्छं सितं घनम् । ताम्म्रपर्णभवं ताम्रं पौतं पारसवोद्भवम् ॥ ८१ ॥ ईषत्श्यामञ्च रुक्षञ्च कौवेरोद्भव मौक्तिकम् । पाण्णादेशोद्भवं पाण्ड ̧ सितं रुक्षं विराटजम् ॥ ८२ ॥ रुक्ष्मिण्याख्यातु या शक्तिस्तत्प्रसूतिः सुदुर्लभा । तत्र जातं सितं स्वच्छं जातीफलसमं भवेत् ॥ ८३ ॥ sararasi रम्यं निर्दोषं यदिलभ्यते । अमूल्यं तद्दिनिर्दिष्टं' रत्न-लक्षण कोविदैः ॥ दुर्लभं नृपयोग्य' स्यादल्पभाग्यैर्न लभ्यते ॥ ८४ ॥
अन्यस्त्वाह, -
सर्वस्य तस्याकरजाविशेषात्,
रूपप्रमाणे च यथैव विद्वान् ।
न हि व्यवस्थास्ति गुणागुणेषु ; सर्व्वत्र सर्व्वाकृतयो भवन्ति ॥ ८५ ॥ ब्रह्मादि जाति-भेदेन शक्तयोपि चतुर्विधाः । तासु सर्वासु जातं हि मौक्तिकं स्याच्चतुर्विधम् ॥ ८६ ॥ ब्राह्मणस्तु सित: स्वच्छो गुरुः शुक्लः प्रभान्वितः । आरक्तः क्षत्रियः स्थूलस्तथारुण-विभान्वितः ॥ ८७ ॥ वैश्यस्त्वापीतवर्णोऽपि स्निग्धः श्वेतः प्रभान्वितः ॥
!
शूद्रः शक्लबपुः सूक्ष्म तथा स्थूलोऽसितद्युतिः ॥ ८८ ॥
( १ ) इति श्लोकाईं (ग) पुस्तकेऽधिकमिवाभाति ।