________________
[ पाद २. सू. ८४-८५] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठाध्यायः [८३ उलन्द, खावुरायण, खापुरायण, खानुरायण, कौष्टायन, कौद्रायण, भास्त्रायण, त्रैगर्तायन, रैवत, रायस्पोष, विपथ, विपाश, उद्दण्ड, उदञ्चन, ऐडायन, जाम्बवत, जाम्बवत्, शिशपा, वीरण, धौमतायन, यज्ञदत्त, सुयज्ञ, बधिर, बिल्व, जम्बू, साम्बुरायण, सौशायन, सौमायन, शाण्डिल्यायन, श्वित्रायणि, साम्वरायण, कश, कृत्स्न, सुशर्मन् इत्यरीहणादिः ।८३। सुपन्थ्यादेWः ॥ ६. २.८४ ॥
सुपन्थिन् इत्यादिभ्यश्चातुरथिकोञ्यः प्रत्ययो भवति देशे नाम्नि । सौपन्थ्यम्, सौवन्थ्यम् सुपथिन्शब्दस्यात एव निपातनात् पकारातरो नागमः पस्य च वा वकारः । सांकाश्यम्, काम्पील्यम् सुपन्थिन्, सुवन्थिन्, संकाश, कम्पील, सुपरि, यूप, अश्मन्, अश्व, अङ्ग, नाथ, कुण्ट, कुट, कूट, मादित, मृष्टि आगस्त्य, शूर, विरन्त, विकर, नासिका, प्रगदिन, मगदिन्, कटिद, कटिप, कटिव, चूदार, मदार, मजार, कोविदार, कश्मीर, शूरसेन कुम्भ, सीर, सरक, समल, अंस, नासा, रोमन्, लोमन्, तीर्थ, पुलिन, मलिन, अगस्ति, सुपथिन्, दश, नल, सकर्ण, कलिव, खडिव, गडिव इति सुपन्थ्यादिः ।८४।
न्या० स० सुपन्थ्यादेय: सुपन्थ्यादिर्विचार्यते, शोभनः पन्थाः सुपन्थाः सुपन्थिन् गणपाठात् वत्वे सुवन्थिन् , संकाशते अच् संकाशः, कं सुखं पीलति कंपीलः, सुष्ठु पिपर्त्ति 'स्वरेभ्य इ.' ६०६ (उणादि) सुपरिः, 'युसुकु' २९७ (उणादि) इति यूपः, 'गम्यमि' ९२ (उणादि) इति 'उरवनख' इति वा अङ्गः, नाथति अच् नाथः, कुटति 'नाम्युपान्त्य' ५-१-५४ इतिके कुट:, कूटयति अचि कूटः, माद्यन्तं प्रयुक्ते माद्यते स्म मादितः, मार्जनं मर्शनं मर्षणं वा मृष्टिः, 'अगपुलाभ्याम' ६६३ ( उणादि ) इति अगस्त्यः तस्यापत्यमृष्यण आगस्त्यः, शूरयतेऽच शूरः, विरमति 'पुतपित्त' २०४ ( उणादि) इति यद्वा विरमतीति औणादिके तृप्रत्यये विरन्तरमाचष्टे णिजि विरन्तयति, अचि विरन्तः ।
विकरोति अचि विशिष्टौ करौ यस्य वा विकरः, नसते 'नसिवसि' ४० ( उणादि) इति नासिका, प्रगदतीत्येवंशीलः प्रगदी, मां गदतीत्येवंशीलः ‘ड्यापो बहुलं नाम्नि' २-४-९९ इति ह्रस्वे मगदी, कटिं ददाति, पाति वाति वा कटिदः, कटिपः, कटिवः । चुदण् 'द्वार' ४११ इति चूदारः, 'अग्यगि ४०५ ( उणादि) इति मदारः, मृजुमजशब्दे, मजति 'अग्यङ्गि' ४०५ ( उणादि) इति बहुवचनात् 'द्वार' ४११ ( उणादि) इति वा मजारः, कनेः 'कोविद' इति कोविदारः । सुतंगमादेरिञ् ॥ ६. २. ८५ ।।
सुतंगमादिभ्यश्चातुर्थिक इञ् प्रत्ययो भवति देशे नाम्नि । सौतंगमिः मौनि वित्तिः, सुतंगम, मुनिवित्त, विप्रचित्त, महावित्त, महापुत्र, शुक्र, श्वेत,