SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ 44 ] श्रीसिद्धहेमचन्द्रशब्दानुशासने अर्धपूर्वपदो नावष्ट्यरणकर्बनटौ क्वचित् । चोराद्यमनोज्ञाद्यकञ् कथानककशेरुके ॥ ३ ॥ अर्धशब्दपूर्वपदोऽट्समासान्तो नौशब्दः स्त्रीक्लीब , अर्धनावी, अर्धनावं-ट्यण - प्रत्ययान्तं कर्तृवजिते कारके विहितो योऽनट्प्रत्ययस्तदन्तं च क्वचिल्लक्ष्यानुसारेण स्त्रीक्लीबम् । टयण-उचितस्य भावः कर्म वा औचिती, औचित्यम्, एवं याथाकामी याथाकाम्यं, वैदग्धी वैदग्ध्यं, मैत्री मैत्र्यं, आनुपूर्वी प्रानुपूयं इत्यादि । क्वचिद्वचनात् क्वचित् स्त्रित्वमेव शीलमेव शैली, क्वचित्क्लीबत्वमेव-शैत्यं, एवं दाढ्यं, जाड्यं, ब्राह्मण्यं, त्रैलोक्यं, सैन्यं इत्यादि । अकर्बनट् । अास्थानी प्रास्थानम् राजसभा। राजधानी राजधानम् स्कन्धावार : । चालिनी चालनम् तितउः । एवं करणी करणम् । प्रमा प्रमाणम् इत्यादि । क्वचित्स्त्रीत्वमेव गुणलयनी दुष्यं, भ्रमणी राज्ञः क्रीडा, प्रसाधनी कङ्कतिका वेषे तु क्लीबत्वमेव, गवादनी गवां घासस्थानं इत्यादि, क्वचिन्नपुसकत्वमेव प्रधीयतेऽस्मिन्निति प्रधानम् प्रकृतौ च महामात्रे, प्रज्ञायां परमात्मनि । नपुंसकं प्रधानं स्यात्, एकत्वे तूत्तमे सदा ॥ १ ॥ साध्यतेऽनेनेति साधनं प्रमाणं तुरगादिसमूहश्च, लक्षणं लक्ष्म चिह्न नाम च, उपवर्तन देशः, स्थानं स्थिति: साश्यं च, युक्तार्थे करणार्थे च स्थाने इत्यव्ययम् । केतनं गृहं केतौ तु पुनपुसकं, प्रमाणं सम्यक् प्रवक्ता, कारणं मर्यादा मानं च, उपसर्जनं गौणमित्यादयः, केचित्तु आश्रयलिङ्गभाजः, राजभोजनः शालिः, राजभोजनी द्राक्षा, राजभोजनमन्नं इत्यादिकाः। मनोज्ञाद्यन्तर्गणजितेभ्यश्चौरादिभ्यो योऽकप्रत्ययस्तदन्तं नाम स्त्रीनपुसकम् । चौरिका, चौरकं, धौर्तिका, धौर्तकं, यौवनिका यौवनकं इत्यादि । अमनोज्ञादिति किम् ? मानोज्ञकं प्रेयरूपकं इत्यादौ 'पा त्वात्त्वादिः' इत्यनेन क्लीबत्वमेव, चौर, धूर्त, युवन्, ग्रामपुत्र, ग्रामषण्ड, ग्रामभाण्ड, ग्रामकुमार, ग्रामकुल, ग्रामकुलाल, अमुष्यपुत्र, अमुष्यकुल, शरपुत्र, शारपुत्र, मनोज्ञ, प्रियरूप, प्राभिरूप, बहुल, मेधाविन्, कल्याण, पाढ्य, सुकुमार, छान्दस, छात्र, श्रोत्रिय, विश्वदेव, ग्रामिक, कुलपुत्र, सारपुत्र, वृद्ध, अवश्य इति चौरादिः । अथ कान्ताश्चत्वारः कथानिका कथानकं आख्यानं, कशेरुका कशेरुक पृष्ठास्थि ।। ३ ।। वंशिकवक्रौष्ठिककन्य-कुब्जपीठानि नक्तमवहित्थम् । रशनं रसनाच्छोटनशुम्बं, तुम्बं महोदयं कांस्यम् ॥ ४ ॥ ___ वंशिका, वंशिक अगुरुः, वक्रोष्ठिका, वक्रोष्ठिकं स्मितम् । अथ जान्तः कन्यकुब्जा कन्यकुब्जं महोदयाख्यो देशः। अथ ठान्तः पीठी पीठमासनं, नक्ता नक्त रात्रिः नक्तमिति मत्तमव्ययमपि, अवहित्था अवहित्थमाकारगोपनं रशनं रशना, काञ्ची, रसना रसनं जिह्वा, अच्छोटना अाच्छोटनं मृगया, शुम्बा शुम्बं रज्जुः, तुम्बी तुम्बं वल्किविशेषः,
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy