SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ 18 ] श्रीसिद्धहेमचन्द्रशब्दानुशासने रुचिः सूचिसाची खनिः खानिखारी , खलिः कोलितूली क्लमिर्वापिधूली। कृषिः स्थालिहिण्डी त्रुटिर्वेदिनान्दी , किकिः कुक्कुटिः काकलिः शुक्तिपङक्ती ॥ २६ ॥ रुचिः कान्तिः, सूचिः सेवनी साचिः तिर्यग्, खनिराकरः, खानिः स एव, खारिर्मानविशेषः, खलिः पिण्याकादिः, की लिः कीलिका, तूलिः चित्रकूचिका, क्लमिः क्लमः, वापिः कूपः, धूलिः पांशुः, कृषिः कर्षणं, उपलक्षणं चेदं किप्रत्ययान्तानाम्, तेन छिदि-भिदित्विष्यादयोऽपि सिद्धाः, स्थालिरुखा, हिण्डिः रात्रौ रक्षाचारः, त्रुटिः संशयेऽल्पेऽपि, वेदियज्ञोपकरणी भूः, नान्दिः पूर्वरङ गाङ्ग, ककिः पक्षविशेषः, कुक्कुटिः कुहनी काकलिर्ध्वनिविशेषः, शुक्तिः कपालशकले, पङ क्तिर्दशसंख्या ।। २६ ।। किखिस्ताडिकम्बी द्युतिः शारिराति स्तटिः कोटिविष्टी वटिगष्टिवीथी। दरिर्वल्लरिर्मञ्जरिः पुञ्जिभेरी शरारिस्तुरिः पिण्डिनाढी मुषुण्ढिः ।। २७ ॥ किखिः कालस्य गोत्रविशेषः, ताडिराभरणविशेषः, कम्बिदविः द्युतिः कान्तिः, शारिरक्षोपकरणं, आतिः शरारिः, तटिः नद्यादौ जलास्फोटनस्थानं, कोटिरग्रं. विष्टिर्भद्रा, वटिगुलिका, गृष्टिर्मानविशेषः, वीथिः पङ क्त्यादिषु । दरिः कन्दरा, वल्लरिमायौं एकार्थे, पुञ्जिः संहतिः, भेरिः वाद्यं, शरारिराटिः, तुरिस्तन्तुवायोपकरणं, पिण्डिनिष्पीडितस्नेहपिण्डः, माढि: पत्रस्नसा, मुषुण्ढिरायुधविशेषः ।। २७ ।। राटिराटिरटविः परिपाटिः, फालिगालिजनिकाकिनिकानि । चारिहानिवलभि प्रधिकम्पी, चुल्लिचुण्डितरयोंऽहतिशारणी ॥ २८ ॥ राटि: कलहः, पाटि: शरारिः, अटविः अरण्यं, परिपाटि: क्रमः, फालिदलं, गालिरवद्योद्भावनं, जनिर्जन्म, काकिनिर्माषचतुर्भागः, कानिः संकोचः, चारिः पशुभक्ष्यं, हानिर्रर्थनाशः, वलभिः पटलाधारो वंशपञ्जरः, इदन्तत्वात् ङ्यां वलभी, अर्थप्राधान्यात् गोपानसी, प्रधिः रोगविशेषः, कम्पिः कम्पन चुल्लिरुद्धानं, चुण्ढिः क्षुद्रवापी, तरिः नौः अर्थप्राधान्यात् द्रोण्यपि, अंहतिर्दानं, शाणिः शाणः ।। २८ ।। सनिः सानिमेनी मरिर्मारिरथ्योषधी विद्रधिल्लरिः पारिरभ्रिः । शिरोधिः कविः कीर्तिगन्त्रीकबर्यः, कुमार्याढको स्वेदनी ह्रादिनीली ॥२६॥
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy