________________
[पाद. ४. सू. ४३-४५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३७१ माभूत्, केचित्तु स्थूलदूरयूनां करोत्यर्थे णौ नेच्छन्ति । स्थूलं करोति स्थूलयति, दूरयति, युवयति ।४२॥
. न्या० स० स्थूल०-अन्तस्थादेरिति किमर्थमिति-अन्त्यस्वरस्य तावत् 'त्रन्त्यस्वरादेः' ७-४-४३ इत्यनेन लुपि सत्यामन्तस्थामात्रमेवावशिष्यते, ततश्चात्रादिग्रहणं निरर्थकं किंतु अन्तस्थादेरित्यनीयान्तस्थाया इति कर्तुमुचितमिति प्रश्नाशयः । ____दकाराणां माभूदिति सर्वमुखस्थानमवर्णमित्येकदेशेन प्रत्यासत्त्या सकारदकारयोरारस्य स्वोत्वं स्यात् । त्रन्त्यस्वरादेः ॥ ७. ४. ४३ ॥
तृप्रत्ययस्यान्त्यस्वरादेश्चावयवस्येमनि णीष्ठेयसूषु च परेषु लुग्भवति ।। कर्तृ मन्तमाचष्टे करयति, करिष्ठः, करीयान्, कर्तारमाचष्टे करयति । मातयति भ्रातयतीत्यत्र अनर्थकत्वात् तृशब्दस्य न भवति । पटिमा, पटयति, पटिष्ठः, पटीयान् । लघिमा, लघयति, लघिष्ठः, लघोयान् । विमनसो भावो विमनिमा, सन्मनसो भावः सन्मनिमा, दृढादित्वादिमन् । विन्मतोलु पि अनेकस्वरस्यान्त्यस्वरादेलचं च विकल्पेनेच्छन्त्येके, लुगभावपक्षे णौ गुणं चेच्छन्ति ।। पयस्विनमाचष्टे पययति, पयसयति, पयिष्ठः, पयसिष्ठः, पयोयान, पयसीयान् । वसुमन्तमाचष्टे वसयति, वसवयति, वसिष्ठः, वसविष्ठः, वसीयान्, वसवीयान् ।४३।
न्या० स० त्रन्त्य०-अनर्थकत्वादिति अनर्थकत्वं चास्याव्युत्पन्नत्वात्, तृप्रत्ययश्च वण पूर्वी विज्ञानार्थः । नैकस्वरस्य ॥ ७. ४. ४४ ॥
एकस्वरस्य शब्दरूपस्य योऽन्त्यस्वरादिरवयवस्तस्येमनि णीष्ठेयसुषु च परेषु लुग्न भदति । स्रग्विणमाचष्टे स्रजयति, स्रजिष्ठः, स्रजीयान् । स्रग्वन्तमाचष्टे सूचयति, स्रुचिष्ठः, स्रुचीयान् । एकस्वरस्येति किम् ? वसुमन्तमाचष्टे वसयति, वसिष्ठः, वसीयान् । इमनि चेत्येव । अस्यापत्यम् इः। ज्ञो देवतास्य ज्ञः, श्रिये हितः श्रीयः, योगविभागात् 'अवर्णेवर्णस्य' (७-४-६८) इति लोपस्यापि प्रतिषधः। श्रेष्ठः, श्रेयान ।४४।
न्या० स० नैक०-योगविभागादिति अन्यथा त्रन्त्यस्वरादेरनेकस्वरस्येत्येव कुर्यात् । दण्डिहस्तिनोरायने ॥ ७. ४. ४५ ॥
दण्डिन, हस्तिन् इत्येतयोरायने प्रत्ययेऽन्त्यस्वरादेलुंग न भवति । 'नोपदस्य-' (७-४-६१) इति प्राप्तौ प्रतिषेधः । दण्डिनोऽपत्यं दाण्डिनायनः,