________________
३१४ ]
बृहद्वृत्ति - लघुन्यास संवलिते
[ पाद- ३ सू० ३५ ]
मानायां यथायोगं कबादयः प्रत्यया भवन्ति । अनुकम्पा तन्नीतिश्च प्रयोक्तृधर्मो वेदितव्यौ ।
पुत्रकः, वत्सकः, बालकः, बुभुक्षितकः, ज्वरितकः, शनकैः, तूष्णीकाम्, स्वपितकि, स्वपिषकि, जल्पतकि, एहकि । अनुकम्पमान एवं प्रयुङ्क्ते पुत्रक एह कि उत्सङ्गके उपविश कदम केनासि दिग्धकः कण्टकस्ते लग्नकः, वत्सक तूष्णीकां तिष्ठ ओदनं भोक्ष्यसे हन्त ते गुडका हन्त ते धानका अद्धकि । अत्रोपविश असि तिष्ठ ओदनं भोक्ष्यसे हन्त ते इत्येतेष्वनभिधानान्न भवति, यत्र त्वभिधानं तत्र भवति । नक त्वकं पुत्रक पश्यसकि, असको काकको वृक्षके उच्चकैः प्रणिलीयते । अनुकम्पायां प्रत्यासत्तेरनुकम्प्यमानादेव स्यात् नान्यस्मात् उत्सङ्गादेस्ततोऽपि यथा स्यादिति तद्युक्तनीतिग्रहणम् । ३४ ।
न्या० स० अनु० गुडका इति गुडेन मिश्रा धाना इति विग्रहे 'ते लुगू वा' ३-२-१०८ "इति धानाशब्दस्य लुकि अनेन कप् । धानका इति अत्र गुडशब्दलोपे कपि 'इच्चापुंसोऽनि० ' २-४-१०७ इति नवा इद्हस्वौ ।
अजातेनृनाम्नो बहुस्वरादियेकेलं वा ॥ ७. ३.३५ ॥
तद्युक्तनीताविति न वर्तते अनुकम्प्यादेव प्रत्ययविधानात् नृनाम्नो मनुष्यनामधेयाद्बहुस्वरादनुकम्पायां गम्यमानायां इयं इक इल इत्येते प्रत्यया भवन्ति वा अजातेः न चेन्मनुष्यनाम जातिशब्दो भवति । अनुकम्पितो देवदत्तः देवियः, देविकः, देविलः । वावचनात्कबपि । देवदत्तकः, जिनियः, जिनिकः, जिनिलः । जिनदत्तकः । अजातेरिति किम् । महिपकः । वराहकः । शरभकः । सूकरकः । गर्दभकः । एते जातिशब्दा मनुष्यनामानि च । अजातेरिति प्रायिको निषेध इत्यन्ये । व्याघ्रलः सिंहिल इति हि दृश्यते, तन्मते बहुस्वरादित्यपि प्रायिकम् । नृनाम्न इति किम् ? सुसीमकः, सीमा स्फटा । नृग्रहणं किम् ? अनुकम्पितो देवदत्तो हस्ती देवदत्तकः । नामग्रहणं किम् ? मद्रबाहुकः । विशेषणमेतन्न नाम । बहुस्वरादिति किम् ? रामक:, गुप्तकः । ३५ ।
न्या० स० अजा०
- तद्युक्तनीताविति न वर्त्तते इति नृनाम्न इत्युक्ते नृनाम्नो हि अनुकम्पै घटते न तत्युक्तनीतिः ।
व्याघ्र इत्यादि अत्र व्याघ्रसिंहइत्येवंविधा द्विस्वरैव प्रकृतिर्न तु व्याघ्रदत्तसिंह दत्तेत्यनेस्वरा द्विस्वरयोरेवानयोर्जातिवाचित्वात् बहुस्वरादित्यपि प्राविकमित्यस्यासंगतार्थत्वापत्तेश्च । देवदत्तो हस्तीति कस्यचित् हस्तिनो देवदत्त इति नाम ।