________________
पाद. २. सू. ७६-७७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २७५ भवति यत्तत्प्रथमान्तं तच्चेत्प्रकारो भवति । सामान्यस्य भिद्यमानस्य यो विशेषो ' विशेषान्तरानुप्रवृत्तः स प्रकारः । पटुः प्रकारोऽस्य पटुजातीयः, मदुजातीयः, यज्जातीयः, तज्जातीयः, नानाभूतः प्रकारोऽस्य नानाजातीयः, एवं प्रकारोऽस्य एवंजातीयः, अस्येति षष्ठ्यर्थे विधानात् प्रकारवति जातीयर् विज्ञायते । ततः प्रकारमात्रभाविथाथमन्तादपि जातीयर् प्रत्ययो भवति । यथाजातीयः, तथाजातीयः, कथंजातीयः, इत्थंजातीयः । रित्करणं 'रिति' (३-२-५८) इत्यत्र विशेषणार्थम् ।७५। ___न्या० स० प्रका०-सामान्यस्य पुरुषरूपस्य भिद्यमानस्य पटुजडादिभेदेन विशेष्यमाणस्य यो विशेषो पटुत्वादिरित्यर्थः ।
विशेषान्तरानुप्रवृत्त इति स विशेषो द्विप्रकारो विशेषान्तरेष्वनुप्रवृत्तोऽनुस्युतः संबद्ध इति यावत् यथाऽयं पटुम॒दुः पण्डित इत्यादि, अयं हि पटुत्वलक्षणो विशेषो बहूनामापि तथा भावात् सभेदेषु विशेषान्तरेष्वनुप्रवृत्तो भवति, अपरश्चाननुप्रवृत्तो यस्य भेदा न सन्ति यथा अमूर्तसामान्यस्याकाशमिति भेदः, आकाशमिति ह्येकं द्रव्यं, न तस्य भेदाः सन्ति येन विशेषो विशेषान्तरेष्वनुप्रवृत्तः स्यात् , तत्र यो विशेषो विशेषान्तरेष्वनुप्रवृत्तः स प्रकार उच्यते । कोण्वादेः ॥ ७. २. ७६ ॥
अणु इत्येवमादिभ्यस्तदस्य प्रकारे इत्यस्मिन् विषये कः प्रत्ययो भवति । जातीयरोऽपवादः । अणुः प्रकारोऽस्य अणुकः पटः, स्थूलकः पटः, अणुका माषाः, स्थूलका माषाः, माषकं हिरण्यम्, इषुका, गोलिका ।
___ अणु. स्थूल, माष, इषु, इक्षु, वाद्य, तिल, काल, तिलकाल, पत्र मूल, पत्रमूल, पर्णमूल, कुमारीपुत्र, कुमारी, श्वशुर, मणि, बृहत्, चञ्चत्, चन्द्र, एरण्ड, पुण्ड्र इत्यण्वादिः ।७६। जीर्णगोमूत्रावदातसुरायवकृष्णाच्छाल्याच्छादनसुराहिव्रीहितिले
।। ७. २. ७७ ॥ जीर्ण, गोमूत्र, अवदात, सुरा, यव, कृष्ण इत्येतेभ्यो यथासंख्यं शालिआच्छादनसुराऽहिव्रीहितिलेषु वाच्येषु तदस्य प्रकार इत्यस्मिन्विषये कः प्रत्ययो भवति । ____ जीर्णाच्छालिषु, जीर्णः प्रकार एषां जीर्णकाः शालयः । गोमत्रादाच्छादने, गोमूत्रप्रकारं गोमूत्रकम् गोमूत्रवर्णमाच्छादनम् । अवदातात्सुरायाम्, अवदातप्रकारा अवदातिका सुरा, सुराया अहौ, सुराप्रकारः सुरावर्णः सुरकोऽहिः । यवात् व्रीहिषु, यवप्रकारा यवका व्रोहयः । कृष्णात्तिलेषु, कृष्णप्रकाराः कृष्णकास्तिलाः । शाल्यादिष्विति किम् ? जीर्णजातीयोऽन्य इत्यादि ।७७।