________________
२५६ ]
बृहद्वृत्ति-लघुन्याससवलिते [पा० २. सू० १ अतिशायने-उदरिणी कन्या, बलवान् मल्लः, संसर्ग, दण्डी छत्री । प्रायिकमेतद्भमादिदर्शनं सत्तामात्रेऽपि प्रत्ययो दृश्यते । व्याघ्रकान्, पर्वतः, स्पर्शरसगन्धवर्णवन्तः पुदलाः, रूपरसगन्धस्पर्शवती पृथिवी, रूपरसस्पर्शवत्य आपः, रूपस्पर्शवत्तेजः, स्पर्शवान् वायुः। यवमतीभिरद्भिद्रूपं प्रोक्षन्ति । तथा मत्वर्थीयान्मत्वर्थीयः सरूपो न भवति, गाव एषां सन्तीति गोमन्तः गोमन्तोऽत्र सन्तीति मतुर्न भवति, दण्ड एषामस्तीति दण्डिकाः दण्डिका अत्र सन्तीति इको न भवति । विरूपस्तु भवत्येव । दण्डिमती शाला, हस्तिमती उपत्यका । विरूपोपि मत्वर्थीयः समानायां वृत्तौ न भवति । दण्ड एषामस्तीति दण्डिकाः दण्डिनः । दण्डिका अस्य सन्ति दण्डिनोऽस्य सन्तीति इन्मतू न भवतः ॥
__शैषिकाच्छैषिको नेष्टः सरूपः प्रत्ययः क्वचित् ॥ समानवत्ती मत्वन्मित्वर्थीयोऽपि नेष्यते ' ॥१॥ कचिदिति समानायामसमानायां च वृत्ती, शालायां भवः शालीय । 'दोरीयः' (६-३-३१) इतीये सति पुनः शालीये भवः शालीयस्यायं वेतीयो न भवति । विरूपस्तु भवति । अहिच्छत्रे भव आहिछत्रः तत्र भव आहिच्छत्रीयः ॥ तथा असंज्ञाभूतात् कर्मधारयान्मत्वर्थीयो न भवति । वीरपुरुषा अस्मिन् ग्रामे सन्ति । अत्र बहुव्रीहिरेव भवति । वीरपुरुषको ग्रामः, संज्ञायास्तु भवत्येव-गौरखरवदरण्यम्, कृष्णसर्पवान् वल्मीकः, लोहितशालिमान् ग्रामः । कथमैकगविकः सर्वधनीति । 'एकादेः कर्मधारयात्' (-७-२-५८) इत्याद्यारम्भसामद्भिविष्यति । तथा गुणे गुणिनि च ये गुणशब्दा वर्तन्ते तेभ्यो मत्वर्थीयो न भवति । शुक्लो वर्णोऽस्यास्तीति तिक्तो रसोऽस्यास्तोति प्रत्ययमन्तरेणाप्येषां तदभिधाने सामर्थ्यात्, ये तु गुणमात्रे तेभ्यो भवत्येव । रूपवान् रसवान् शौक्ल्यवान् कायॆवानिति ।१।
__ अर्ह। तद०-अस्तीति चेति यदा अस्तिशब्दो धनार्थस्तदास्तिमानित्युपपद्यते, यदा तु विद्यमानार्थस्तदा कथं द्वयोरेकार्थत्वादित्याह-सामान्याभिधायीति अस्तीति क्रियापदं सामान्याभिधायि सामान्येनास्तित्वमात्रप्रतिपादनात् , प्रकृतिभूतस्य त्वव्ययस्य विशेषाभिधायित्वं विद्यमानत्वरूपविशेषस्याभिधानात् । ____ अस्तीति वर्तमानेति यद्यपि सूत्रे लिङ्ग संख्या कालश्चातन्त्राणि तथापीह सूत्रे वर्तमानकालस्यैव प्राधान्यमस्तीतिपदोपादानादन्यथा किमनेन ? न खलु पदार्थः सत्तां व्यभिचरति, ततः सत्तायां निसर्गसिद्धायां यत्पुनरस्तीति ग्रहणं तद्वर्तमानकालार्थम् ।
एषैषेति एषा या त्वया पृष्टा सा एषा वक्ष्यमाणेत्यर्थः। कथं मतुरिति वर्तमानत्वाभावादित्यर्थः ।
___ धातोः सम्बन्ध इति अनेन सूत्रेणायथाकालमपि प्रत्यया भवन्तीत्यर्थः, तेन प्रत्ययस्य वर्तमानकालत्वेऽपि भूतभविष्यत्कालतावगमः । शबलगुरिति शबलशब्दावर्णवाचिनो गौरादित्वात्