________________
[ पाद. १. सू. १५२-१५३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [ २४३ न्तात अस्येति षष्ठ्यर्थे अवयविनि तयट प्रत्ययो भवति । चत्वारोऽवयवा अस्याः चतुष्ट यी शब्दानां प्रवृत्तिः। चतुष्टयी रज्जुः, पञ्चतयो यमः, सप्ततयी नयप्रवृत्तिः, दशतयो धर्मः, द्वादशतयः सिद्धान्तः ।१५१। दित्रिभ्यामयट् वा ॥ ७. १. १५२ ॥
द्वित्रि इत्येताभ्यामवयववृत्तिभ्यां प्रथमान्ताभ्यामस्येति षष्ठयर्थे अवयविनि अयट् प्रत्ययो वा भवति । द्वाववयवावस्य द्वयम् द्वितयम् तपः, त्रयं त्रितयम् जगत्, त्रयः त्रितयो मोक्षमार्गः । टकारो ङयर्थ । द्वयी द्वितयी, त्रयी त्रितयी रज्जुः । अवयवा अवयविनि संबद्धा इति सामर्थ्यादवयवी प्रत्ययार्थ इति विज्ञायते । त्रयाणि पानानि यथातथा पिबेदित्यत्र तु देशकालादिभेदेन समुदायाभिधानात् बहुवचनम् । द्वये पदार्था जीवा अजीवाश्चेत्यत्र तु जीवाजीवतया द्वैराश्योपादानात् बहूनामपि द्वाववयवौ भवतः । कथमुभयो मणिः उभये देवमनुष्याः उभयी दृष्टिरिति ? उभयशब्दः सर्वादिषु उभयट् इति पठयमानः शब्दान्तरमेव विज्ञेयम् तथा चास्य 'नेमा '-(१-४-१०) इत्यादिना जस इकारविकल्पो न भवति ।१५२। ..
न्या० स० द्वित्रि-पयश्च दिव्यं शुचि मेघसंभवं स्वतिप्रसन्नां परमां च वारुणी, ममातुलं वारि च वक्त्रसंभवं त्रयाणि पानानि यथातथा पिबेत् ।
बहुवचनमिति पानस्यैकत्वात् कथं बहुवचनमित्याशङ्कार्थः । कथमिति इह केचिदुभयशब्दान्नित्यमयटमिच्छन्ति उभौ शुक्लकृष्णौ अवयवावस्य तत् स्वमते कथमित्याशङ्का । द्यादेर्गुणान्मूल्यक्रेये मयट् ॥ ७. १. १५३ ॥
संख्याया इति वर्तते, ब्यादेः संख्याशब्दाद्गुणवृत्तेस्तदिति प्रथमान्तादस्येति षष्ठयर्थे मयट् प्रत्ययो भवति स चेत्संख्याशब्दो मूल्ये. केये वा वर्तते ।
यवानां द्वौ गुणौ मूल्यमस्योदश्वितः क्रेयस्य द्विमयमुदश्विद्यवानाम्, एवं त्रिमयम्, चतुर्मयम् । उदश्वितो द्वौ गुणो केयावेषां यवानां द्विमया यवा उदश्वितः, एवं त्रिमयाः, चतुर्मयाः। व्यादिपदस्य सापेक्षस्यापि नित्यसापेक्षत्वेन गमकत्वाद्वृत्तिः। व्यादेरिति किम् ? यवानामेको गुणो मूल्यमस्योदश्वित उदश्वित एको गुणः क्रेय एषां यवानाम् ।।
गुणादिति किम् ? द्वौ व्रीहियवौ मूल्यमस्योदश्वितः । द्वे घृतोदश्विती 'क्रेये एषां यवानाम् । मूल्यक्रेय इति किम् ? क्षीरस्य द्वौ गुणौ तैलस्य पाक्यस्य ॥ अपरः प्रकारः । मूल्यक्रेय इति प्रत्ययार्थविशेषणम् ।