________________
२२४J बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० ७१-७३ }
परम पौरुषं मा भूदिति ततश्च परमस्य पुरुषस्य भाव इति वाक्ये 'सन्महत्' ३-१-१०७ इत्यादिना समासविषयो यतो भावपदापेक्षया षष्ठी ततः सामानाधिकरण्यं इति 'सन्महत्" ३-१-१०७ इति प्राप्तिः, ततस्त्वे समानीते सति पुरुषत्वं एवंविधेन शब्देन सह परमशब्दस्य समासः, 'षष्ठ्ययत्नाच्छेषे' ३-१-७६ इत्यनेनैव परमस्यैवंविधस्य पुरुषत्वेन शब्देन सह समासो न भवति, 'सन्महत्' ३-१-१०७ इति सूत्रेण विशेषणविशेष्याभावात्, विशेषणविशेष्यत्वं च समानाधिकरण्ये सति संभवति, अत्र पुरुषत्वं परमस्येति वैयधिकरण्यं, अतः 'षष्ठ्ययत्ना' ३-१-७६ इत्यनेनैव समास इति प्रकारद्वयेनापि समासविषयो भवति ।
__ अत एवेति ननु समासे चिकीर्षिते पुरुषहृदयशब्दौ पदान्तरापेक्षौ भक्तस्तत्र सापेक्षत्वादेक न भविष्यति किं प्रतिषेधेन ? इत्याह-सापेक्षत्वादपीत्यादि। श्रोत्रियाघलुक च ॥७. १.७१ ।।
श्रोत्रियशब्दात्तस्य भावे कर्मणि चाण् प्रत्ययो भवति तत्संनियोगे च य इत्यस्य लोपो भवति त्वतलौ च । श्रोत्रियस्य भावः कर्म वा श्रौत्रम्, श्रोत्रियत्वं श्रोत्रियता, चौरादिपाठादकञपि श्रोत्रियकम् ।७१।। योपान्त्याद्रूपोत्तमादसुप्रख्यादकञ् ॥ ७. १. ७२ ।।
त्रिप्रभृतीनामन्त्यमुत्तमम् तत्समीपमुपोत्तमम्, उपोत्तमं गुरुर्यस्य तस्मात यकारोपात्यात् सुप्रख्यवजितात् तस्य भावे कर्मणि चाकञ् प्रत्ययो भवति स्वतलौ च ।
__ रमणीयस्य भावः कर्म वा रामणीयकम्, रमणीयत्वम् रमणीयता, दार्शनीयकम्, कामनीयकम्, औपाध्यायकम् पानीयकम् । गुरुग्रहणादनेकव्यञ्जनव्यधाने ऽपि भवति । आचार्यकम्, गुरुग्रहणं हि दीर्घपरिग्रहार्थं संयोगपरपरिग्रहार्थं च, अन्यथा दीर्घोपोत्तमादित्युच्येत । योपान्त्यादिति किम् ? कापोतं, विमानत्वम् । गुरूपोत्तमादिति किम् ? क्षत्रियत्वम्, कायत्वम् । असुप्रख्यादिति किम् ? सुप्रख्यत्वम् । गुणाङ्गत्वात् टयणपि, सौप्रख्यम् ।७२।
न्या० स० योपा.-गुरुपोत्तम इत्यत्र ‘विशेषणसर्वादि' ३-१-१५० इति गुरोः पूर्वनिपातः संयोगपरेति-संयोगे गुरुरित्यर्थः, तेनाचार्यकमित्यादावने कव्यञ्जनव्यधानेऽपि ।
क्षत्रियत्वम, कायत्वम्-प्रथमे गुरुनास्ति द्वितीये तु उपोत्तमत्वं नास्ति । चौरादेः ॥ ७. १. ७३ ।।
चौरादिभ्यस्तस्य भावे कर्मणि चाकम् प्रत्ययो भवति त्वतलौ च । चौरस्य भावः कर्म वा चौरिका चौरकम्, धौतिका धौर्तकम्, मानोज्ञकम, प्रेयरूपकम्, चौरत्वम्, चौरता।
चौर, धूर्त, युवन्, ग्रामपुत्र, ग्रामसण्ड, ग्रामसाण्ड, ग्रामकुमार, ग्रामकूल,