________________
बृहद्वृत्ति - लघुन्याससंवलिते
प्रतिजना देरीनञ् ॥ ७. १.२० ॥
प्रतिजनादिभ्यस्तत्र साधावीनञ् प्रत्ययो भवति । प्रतिजने साधुः प्रातिजनीनः, अनुजने साधुः आनुजनीनः, इदंयुगे साधुः ऐदंयुगीनः । प्रतिजन, अनुजन, विश्वजन, पाञ्चजन, महाजन, इदंयुग, संयुग, समयुग, परयुग, परकुल, परस्यकुल, अमुष्यकुल इति प्रतिजनादिः | २० |
षष्ठ्याः क्षेपे ' ३-२-३०
२०६ ] सार्वजनीनः ।१९।
न्या० स० प्रति० – परस्यकुलेति गणपाठात् षष्ठ्यलुप् इति वा यदा परकुलसंबन्धित्वेनाऽक्षिष्यते । एवमुष्यकुलेति ।
[ पाद. १ सू. २०-२५
कथादेरिकण् ॥ ७. १. २१ ॥
कथादिभ्यः सप्तम्यन्तेभ्यः साधावर्थे इकण् प्रत्ययो भवति । कथायां साधुः काथिकः, वैकथिकः । कथा, विकथा, विश्वकथा, संकथा, वितण्डा, जनेवाद, जनवाद, ( जनोवाद ) भृशोवाद, जनभृशोवाद, वृत्ति, संग्रह, गुण, गण, आयुर्वेद, गुड, कुल्माष, गुल्मास, इक्षु, सक्तु, वेणु, अपूप, मांसौदन, मांद, ओदन, संग्राम, संघात, संवाह, प्रवास, निवास, उपवास इति कथादिः ॥२१॥
देवतान्तात्तदर्थे । ७. १. २२ ।।
देवतान्ताच्छब्दरूपात्तदर्थेऽर्थे यः प्रत्ययो भवति । अर्थाच्चतुर्थ्यन्तात् प्रत्ययः, अग्निदेवतायै इदमग्निदेवत्यम् । पितृदेवत्यम्, देवदेवत्यम् । देवताशब्देन देयस्य हविरादेः प्रतिग्रहीता स्वामी संप्रदानमुच्यते ॥ २२॥
म्या० स० देव० - तदर्थं इति प्रत्ययार्थादेवेत्यर्थः ।
पाद्यार्थ्ये ॥ ७. १. २३ ॥
पाद्य अर्ध्य इत्येतौ तदर्थे यप्रत्ययान्तो निपात्येते पादार्थमुदकं पाद्यम्, निपातनादेव ये पदादेशो न भवति । अर्धो मूल्यं पूजनं वा, अर्घार्थं रत्नमर्घ्यम् ।२३।
ण्योऽतिथेः ।। ७. १.२४ ॥
अतिथिशब्दात्तदर्थे यः प्रत्ययो भवति । अतिथ्यर्थमातिथ्यम् | २४|
सादेश्वा तदः ।। ७. १. २५ ।।
अधिकारोऽयम् यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र आ तदस्तदिति सूत्रं