________________
श्रीसिद्धहेमचन्द्र शब्दानुशासने षष्ठोध्यायः
[ ३
भवति, यूनः कुत्सायां पक्षे युवत्वं निवर्त्यते, तत्र वृद्धप्रत्ययेनाभिधानं भवति । गाग्यंस्यापत्यं युवा कुत्सितो गार्ग्यः गार्ग्यायणो वा जाल्मः । गुर्वायत्तो भूत्वा स्वतन्त्रो यः स एवमुच्यते, कुत्साया अन्यत्र गार्ग्यायण एव । वृद्धस्य चर्चायां पक्षे युवत्वं प्राप्यते, तत्र युवप्रत्ययेनाभिधानं भवति । गर्गस्यापत्यं वृद्धमंचितं तत्रभवान् गार्ग्यायणः गार्ग्यो वा । अर्चाया अन्यत्र गार्ग्य एव । अस्त्रीत्येव ? गर्गस्यापत्यं पौत्रादि स्त्री गार्गी ॥ ५॥
न्या० स० – युववृद्धं ० -युवत्वं निवर्त्यत इति - ' वंश्यज्यायः १ ६-१-३ इत्यनेन नित्यं प्राप्तम् ।
संज्ञा दुर्वा ॥ ६. १. ६ ॥
या संज्ञा संव्यवहाराय हठान्नियुज्यते सा दुसंज्ञा वा भवति । देवदत्तीयाः, दैवदत्ताः, सिद्धसेनीयाः, सैद्धसेनाः । द्रुप्रदेशाः ' दोरीय:' (६-३-३१)
इत्यादयः ।। ६ ॥
न्या० स० - संज्ञा दुर्वा - संज्ञायतेऽनया स्थादित्वात् कः, बाहुलकात् स्त्रीत्वं, संज्ञानं वा, ' उपसर्गादातः ' ५ -३ - ११० इत्यञ् ।
त्यदादिः ॥ ६. १. ७ ॥
सर्वाद्यन्तर्गतास्त्यदादयो दुसंज्ञा भवन्ति । त्यदीयम्, तदीयम्, यदीयम्, इदमीयम्, अदसीयम्, एतदीयम् एकीयम्, द्वीयम्, युष्मदीयम्, अस्मदीयम्, किमीयम्, त्यादायनिः, यादायनिः ॥ ७ ॥
न्या० स०-त्यदादिः-भवदन्यैर्नोदाहृतः इत्यस्माभिरपि नोदाहृतः, प्रयोगस्तु भावतायनिः । वृद्धिर्यस्य स्वरेष्वादिः ॥ ६१.८ ॥
यस्य शब्दस्य स्वरेषु मध्ये आदिः स्वरो वृद्धिसंज्ञो भवति स शब्दो दुसंज्ञो भवति । आम्रगुप्तायनिः, शालगुप्तायनिः, आम्बष्ठ्यः, शालीयः, मालीयः, ऐतिकायनीयः, औपगवीयः । वृद्धिरिति किम् ? दत्तस्येमे दात्ताः, अत्र स्वरेष्वादिः अकारोस्तीति दुसंज्ञा स्यात्, शालीया इत्यादिषु तु न स्यादिति वृद्धिग्रहणम् । यस्येति संज्ञिनिर्देशार्थम् । अनेन हि स इत्याक्षिप्यते । स्वरेष्विति व्यञ्जनानपेक्षया बुद्धिसंनिकृष्टस्वर संनिवेशापेक्षमादित्वं यथा विज्ञायेतेत्येवमर्थम्, तेन व्यञ्जनादेरपि दुसंज्ञा सिद्धा भवति । आदिरिति किम् ? सभासन्नयने भवः साभासंनयनः ॥ ८ ॥