________________
अहम् ॥ अनंतलब्धिनिधानाय श्रीगौतमस्वामिने नमः ॥ । पूज्यपादाचार्य देवश्रीमद् दान-प्रेम-रामचन्द्र-भद्रङ्करसद्गुरुभ्यो नमः ।
कलिकालसर्वज्ञ-श्रीहेमचन्द्रसूरिभगवत्प्रणीतंश्रीसिद्धहेमचन्द्रशब्दानुशासनम् । [ स्वोपज्ञतत्त्वप्रकाशिकाभिधबृहवृत्ति-मनीषिकनकप्रभसूरिविरचितन्याससारसमुद्धार (लघुन्यास) संवलितम् ]
[तत्र-षष्ठोऽध्यायः] तद्धितोऽणादिः ॥ ६. १. १॥
अणादिः प्रत्ययो य इत ऊर्ध्वं वक्ष्यते स तद्धितसंज्ञो विज्ञेयः । औपगवः, कापटवः । तद्धितप्रदेशाः 'ऋतो रस्तद्धिते' (१-२-२६) इत्यादयः ॥१॥
न्या. स.-तद्धितोऽणादिः-तस्मै लौकिक-वैदिकशब्दसंदर्भाय ताभ्यः प्रकृतिभ्यो विकृतिभ्यो चा हितः, आद्यं मतं जैनेन्द्रस्य, द्वितीयमुत्पलस्य । हितादिभिः' ३-१-७१ इति समासः। पौत्रादि वृद्धम् ॥ ६. १. २ ॥
परमप्रकृतेः अपत्यवतो यत्पौत्राद्यपत्यं तद्वद्धसंगं भवति । गर्गस्यापत्यं पौत्रादि गार्यः, एवं वात्स्यः । पौत्रादीति किम् ? अनन्तरापत्ये गागिः वात्सिरित्येव भवति, पौत्रस्यापत्यत्वात् तदाद्यपत्यमेव विज्ञायते । वृद्धप्रदेशाः 'वृद्धानि' (६-१-३०) इत्यादयः ॥२॥
न्या० स० पौत्रादि वृद्धम्-अपत्यवत इति-विशेष्यं परमप्रकृतेरिति विशेषणं, अन्यथा परमप्रकृतविशेष्यत्वे अपत्यवत इत्यस्य स्त्रीत्वं स्यात्, परमा प्रकृष्टा प्रकृतिः परमप्रकृतिर्यस्मात परोऽन्यो न ज्ञायते, यद्यपि पितामहप्रपितामहादिनीत्या वृद्धसंतानस्यानन्त्यं तथापि यन्नाम्ना कुलं व्यपदिश्यते स परमप्रकृतिरित्युच्यते ।
गार्ग्य इति-बाह्वादोनो बाधको गर्गादेर्यञ् । गार्गिरिति-अन्न इमो बाधक ऋष्यण प्राप्नोति, तद्बाधनाय बाहादित्वादि ।