________________
[ पाद. २ सू. ११५-११७]
श्रीसिद्धहेमचन्द्राशब्दानुशासने षष्ठोध्यायः
[ ९१
स्यामिति स्त्रीलिङ्गे सप्तम्यर्थे णः प्रत्ययो भवति । प्रपातोऽस्यां वर्तते तिथौ प्रापाता, एवं दाण्डाघाता, मौसलपाता भूमिः, भावग्रहणं किम् ? प्रकारोऽस्याम्, प्रासादोऽस्याम् । घञ इति किम् ? श्येनपतनमस्याम् । स्त्रीलिङ्गग्रहणादिह न भवति । दण्डपातोऽस्मिन् दिवसे । इतिकरणानुवृत्तेः कचिन्न भवति । द्रोणपाकोऽस्यां स्थाल्याम्, केवलाच्च भाव घञन्तान्न भवति । ११४ |
न्या० स० भावघञोऽस्यां ० – प्रापातेति यद्यपि प्रत्ययः प्रकृत्यादेः इति न्यायेन पात इत्येतदेव घनन्तं न समुदायस्तथापि, कृत् सगतिकारकस्यापीति प्रतातादिः समुदायो घनन्त एव ।
श्यैनंपाता तैलंपाता ॥। ६. २. ११५ ।।
श्येनशब्दस्य तिलशब्दस्य च भावघञन्ते पातशब्दे परे मान्तो निपात्यते, प्रत्ययस्तु पूर्वेणैव सिद्धः । श्येनपातोऽस्यां वर्तते श्यैनंपाता । तिलपातोऽस्यां वर्तते तैलंपाता तिथिः क्रियाभूमिः क्रीडा वा । ११५ ।
प्रहरणात् क्रीडायां णः ॥ ६. २. ११६ ॥
प्रहरणवाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे क्रीडायां णः प्रत्ययो भवति । दण्डः प्रहरणमस्यां क्रीडायां दाण्डा, एवं मौष्टा, पादा, क्रीडा | प्रहरणादिति किम् ? माला भूषणमस्यां क्रीडायाम् । क्रीडायामिति किम् ? खड्गः प्रहरणमस्यां सेनायाम्, यत्राद्रोहेण घातप्रतिघातौ स्यातां सा क्रीडा । ' भावघञोऽस्यां णः ( ६-२-११४ ) इत्यनन्तरो णो नानुवर्तते क्रीडाया अर्थान्तरत्वात् यथा पूर्वसूत्रोपात्तः समूहाद्यर्थेषु ततो यथाविहितमेव प्रत्ययो भवेदितीह पुनर्णग्रहणम् ।११६ ।
न्या० स० प्रहरणात् समूहाद्यर्थेष्विति ' श्रवणाश्वत्थान्नाम्न्यः १ ६-२-८ इत्यत्रोपात्तोऽप्रत्ययः ' षष्ठ्याः समूहे ' ६ - २ - ९ इत्यत्र यथा नानुवर्त्तते, अन्यथा भावघयोस्यां ण इत्यतोऽधिकारायातेनैव सिध्यति ।
तत्त्यधीते ॥ ६. २. ११७ ॥
तदिति द्वितीयान्तात् वेत्ति अधीते वेत्येतयोरर्थयोर्यथाविहितं प्रत्ययो भवति । मुहूर्तं वेत्ति मौहूर्तः, एवमौत्पात, नैमित्तः । केचित्तु मुहूर्तनिमित्तशब्दौ न्यायादौ पठन्ति तन्मते मौहूर्तिकः नैमित्तिकः छन्दोऽधीते छान्दसः, व्याकरणं वेत्त्यधीते वा वैयाकरणः, नैरुक्तः, घटं वेत्ति पटं वेत्तीत्यादावनभिधानान्न भवति । केचित्तु वेदनाध्ययनयोरेकविषयतायामेवेच्छन्ति । तन्मते अग्निष्टोमं यज्ञं वेत्तीत्यादावपि प्रत्ययो न भवति । ११७ ।