________________
[ पाद. २. सू. ९९-१०१]
[ ८७
श्रीसिद्धहेमचन्द्र शब्दानुशासने षष्ठोऽध्यायः मासार्धमासयोरेव संवत्सरपर्वणोः प्रत्ययः संवत्सरेऽप्यन्ये । अस्येत्यवयवावविसंबन्धे षष्ठी, पौषी पौर्णमासी अस्य पौषो मासः, पौषोऽर्धमासः, एवं याघः वैशाखः आषाढ इति । नाम्नीत्येव ? पौषी पौर्णमासी अस्य पञ्चरात्रस्य दशरात्रस्य भृतकमासस्य वेति वाक्यमेव, पौर्णमासीति पूर्णो माचन्द्रोऽस्यामस्तीति 'पूर्णमासोऽण् ' ( ७- २ - ५५ ) इत्यण् । पूर्णमास इयमिति वा ' तस्येदम् ( ६-३-१५९) इत्यण् । पूर्णो मा मासो वास्यां पूर्णमासा वा युक्तेति अत एव निपातनादण् । ९८ ।
4
न्या० स० सास्य पौर्णमासी - तेनेत्यादि मासः त्रिंशद्ात्ररूपः, मासस्यार्धमर्धमासः पञ्चदशरात्ररूपः, अत्रैव प्रत्ययो भवति, नान्यत्र पञ्चरात्रादौ मासार्धमा सावप्यनेकरूपत्वादित्याह - संवत्सरपर्वणोरिति संवत्सरस्य वर्षस्य पर्वभूतो मासः सूर्याचन्द्रमसोः संश्लिष्य पुनः संश्लिष्टयोर्विश्लिष्य पुनर्विश्लिष्टयोर्वायौ तौ संश्लेषौ विश्लेषौ वा तयोरन्तराल कालः, अर्धमासश्च संश्लेषविश्लेषयोरन्तरमतो भृतकमासादेर्न भवति, संवत्सरपर्वाभावात् ।
आग्रहायण्यश्वत्थादिकण् ॥ ६. २. ९९ ॥
आग्रहायणी अश्वत्था इत्येताभ्यां सेति प्रथमान्ताभ्यामस्येति षष्ठ्यर्थे इकण् प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेत्पौर्णमासी भवति नाम्नि प्रत्ययान्तं चेत् नाम स्यात् । आग्रहायणी पौर्णमासी अस्य आग्रहायणिको मासोर्धमासो वा, अश्वत्था पौर्णमासी अस्य अश्वत्थको मासोऽर्धमासो वा आग्रहायणी मार्गशीर्षी, अश्वत्था आश्वयुजी, अन्ये तु अश्वत्थशब्दमप्रत्ययान्तं पौर्णमास्यामपि पुंलिङ्गमिच्छन्ति, अश्वत्थः पौर्णमासी । ९९ /
न्या० स० आग्रहायण्य० - आग्रहायणीति अम्रं हायनस्य द्वित्रिचतुष्पूरण ३-१-५६ इति सः, ‘ प्रथमोक्तम्' ३-१-१४८ इति अग्रस्य पूर्वनिपातः, 'पूर्व पदस्था' २-३-६४ इति त्वं अग्रहायण एवं प्रज्ञादिभ्योऽणू ङीः ।
चैत्र कार्तिकी फाल्गुनी श्रवणाद्वा ।। ६. २. १०० ॥
एभ्य इण् प्रत्ययो भवति वा सास्य पौर्णमासीति अस्मिन् विषये नाम्नि | चैत्री पौर्णमासी अस्य चैत्रिकः चैत्रो वा मासोऽर्धमासो वा, एवं कार्तिक्या: कार्तिकिकः, कार्तिकः, फाल्गुन्याः फाल्गुनिकः, फाल्गुनः, श्रवणायाः श्रावणिकः श्रावणः । १०० ।
देवता ।। ६. २. १०१ ।।
सास्येत्यनुवर्तते । सेति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्तत्प्रथमान्तं देवता चेत्सा भवति । अर्हन् देवता अस्य आर्हतः,