________________
८२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-२२-२५
प्सते, लभ लिप्सते, शक्-शिक्षति, पत् पित्सति, पद्-पित्सते । सोत्येव,-पिपतिषति । बहुवचनं शकोचशक्लुटोरुभयोरपि परिग्रहार्थम् ।। २१ ।।
न्या० स० रभलभ०-शिक्षतीति-शकीच शिक्षते इत्यपि । बहुवचनमिति-अन्यथा निरनुबन्धत्वाद्देवादिकस्यैव स्यात् ।
राधेर्वधे ॥ ४. १. २२ ॥
राहिंसायां वर्तमानस्य सकारादौ सनि परे स्वरस्येकारादेशो भवति, न चास्य द्विः । प्रतिरित्सति, अपरित्सति । वध इति किम् ? आरिरात्सति गुरून् ।। २२ ॥
अवित्परोक्षा-सेट्थवोरेः ॥ ४. १. २३ ॥
राहिसायां वर्तमानस्य अविति परोक्षायां थवि च सेटि स्वरस्यैकारो भवति, न चास्य द्विर्भवति । रेधतुः, रेधुः, रेधिथ, अपरेधतुः, अपरेधुः, अपरेधिथ, प्रतिरेधतुः, प्रतिरेधुः, प्रतिरेधिथ, परिरेधतुः, परिरेधुः, परिरेधिथ, अपरेधिव, अपरेधिम । अविदिति किम् ? अपरराध । परोक्षासेट्थवोरिति किम् ? अपराध्यते । वध इत्येव,-आरराधतुः । आरराधिथ ॥२३॥
अनादेशादेरेकव्यञ्जनमध्येऽतः॥ ४. १. २४ ॥
प्रवित्परोक्षासेट्थवोः परयोर्योऽनादेशादिर्धातुस्तत्संबन्धिनः स्वरस्यातोऽकाररूपस्यासहायव्यञ्जनयोर्मध्ये वर्तमानस्य स्थाने एकारादेशो भवति, न च धातुद्धिर्भवति । पेचतुः, पेचुः, पेचिवान् , पेचुषी, पेचिव, पेचिम, पेचिथ, रेणतुः, रेणिथ । अविदित्येव ? अहं पपच । परोक्षायामित्येव,-पच्यते । सेट्थवीत्येव,-पपवथ । अनादेशादेरिति किम् ? बभणतुः, बभणिथ, चकणतुः, चकणिथ । एकव्यञ्जनमध्ये इति किम् ? ततक्षतुः, ततक्षिथ । अत इति किम् ? दिदिवतुः । दिदेविथ । अवित्परोक्षासेट्थवभ्यामादेशादित्वस्य विशेषणं किम् ? इहापि यथा स्यात् । णम्-नेमतुः; नेमुः, नेमिथ, सेहे, सेहाते सेहिरे, युजादौषहण सेहिथ । अत्र हि अनिमित्ते नत्वसत्वे न तु परोक्षानिमित्ते इति ।।२४।।
न्या० स०-अनादेशा०-एके च असहाये च ते व्यञ्जने च तयोर्मध्यं तस्मिन् । अहं पपचेति-अन्त्यणवो वा णित्वादऽकारसंभवे द्वयङ्गवैकल्याऽभाव इत्यन्तणवि दशितम् , ममथ्वानित्यत्रैकव्यञ्जनस्य लाक्षणिकत्वान्न भवति ।
त-त्रप-फल-भजाम् ॥ ४. १. २५॥
एषामवित्परोक्षासेट्थवोः स्वरस्यात एत्वं भवति, न चैते विर्भवन्ति । तेरतुः, तेरिथ, त्रेपे, पाते, त्रेपिरे, फेलतुः, फेलिथ, भेजतुः, भेजिथ । अविदित्येव,-अहं ततर, सेटोत्येव,-बभक्थ । अत इत्येव,-तितीर्वान् । तरतरतो गुणरूपत्वात् त्रपेरनेकव्यञ्जनमध्यत्वात् फलभजोरादेशादित्वात् न प्राप्नोतीति वचनम् । बहुवचनं तु फलत्रिफला इत्युभयोरपि ग्रहरणार्थम् ।।२५।।