________________
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद - १, सूत्र - १४-१७
एते शब्दा अचि कृतद्विर्वचना वा निपात्यन्ते । चरिचलिपतिवदिहन्तीनामजन्तानां द्वित्वं हन्तेर्हस्य घत्वं पूर्वस्य च दीर्घः । चरतीति चराचरः, चलाचलः, पतापतः, वदावदः, घनाघनः । पाटयतेरजन्तस्य द्वित्वम् हस्वत्वं पूर्वस्य च ऊदन्तो निपात्यते - पाटयतीति पाटूपटः । पक्षे, चरः, चलः, पतः, वदः, हनः, पाटः । केचित्तु पटूपट इति निपातयन्ति ।। १३ ।। न्या० स०-चराचरघनाघन इति - प्रथमस्य निपातनात् घत्वं द्वितीयस्य तु 'अङ हिन' ४-१-३४ इति सिद्धमेव ।
८० ]
चिक्किद-चक्नसम् । ४. १. १४॥
चिक्लिदचक्न सशब्दौ निपात्येते । क्लिद्यतेः के क्नस्यतेरचि उभयत्र घञर्थे वा के द्वित्वं निपात्यते । चिक्लिदः, चक्नसः । चक्रुः ययुः बभ्रुः इत्यौणादिकाः ।। १४ ।।
न्या० स० चिक्लिद० - क्लिदौच् क्लिद्यतीति 'नाम्युपान्त्य' ५-१-५४ इति कः क्नस्यतीत्यऽच् क्लेदनं क्लसनं वा स्थादित्वात्के । चक्रुः वैकुण्ठः कर्मठश्च ययुः अश्वः यायावर: स्वर्गमार्गश्च, बभ्रुः ऋषिः नकुलः राजा वर्णश्व, 'हनिया' ७३३ ( उणादि ) इति त्रयोऽपि साधवः ।
दाश्वत् साहृत् मीदवत् ॥ ४. १.१५ ॥
1
एते शब्दाः क्वसुप्रत्ययान्ता निपात्यन्ते । दाशृगु दाने इत्यस्य ववसावद्वित्वमनिट्त्वं च निपात्यते । दाश्वान् दाश्वांसौ, दाशुषी । षहि मर्षणे इत्यस्य परस्मैपदम द्वित्वमुपान्त्यदीर्घत्वमनित्वं च निपात्यते । साह्वान्, 'मिह सेचने' इत्यस्याद्वित्वमनित्वमुपान्त्यदीर्घत्वं ढत्वं च निपात्यते, मीढ्वान् ।। १५ ।।
न्या० स०-दाश्वत्साह्वत्- ' षहण् मर्षणे' इत्यस्य न निपातनमिष्टिवशात् ।
ज्ञप्यापो ज्ञीपीप् न च द्विः सि सनि । ४. १. १६ ।।
ज्ञपेरापेश्व सकारादौ सनि परे यथासंख्यं ज्ञीपोप इत्येतावादेशौ भवतो न चानयोरेकस्वरोंऽशो द्विर्भवति । श्रादेशे कृते द्वित्वं प्राप्नोतीति निषिध्यते । आदेशसंनियोगे च निषेधात् श्रन्यत्र द्वित्वं भवत्येव । ज्ञीप्सति, ईप्सति । सीति किम् ? जिज्ञपयिषति । 'इवृध'( ४-४-४७ ) इत्यादिना विकल्पेट् । सनीति किम् । आप्स्यति ।। १६ ।।
न्या० स०-ज्ञप्यापो०- आदेशे कृते इति परत्वात् प्रथममेवेत्यर्थः । ज्ञीप्सतीति- ज्ञांश्, जानन्तं प्रयुङ्क्तेो णिग्, 'अत्तिरी' ४-२ - २१ इति पोऽन्तः, 'मारणतोषण' ४-१-३० इति ह्रस्वत्वं ज्ञपयितुमिच्छति 'तुमर्हात्' ३-४-२१ इति सन् । ईप्सतीति - आप्लृण् लम्भने इत्यस्य णिजभावेऽपि नित्यमिटि सादिस्सन् नास्ति ।
ऋध ईत् ॥ ४. १. १७ ॥