________________
६२]
बृहवृत्ति-लघुन्याससंवलिते
[ पाद-४, सूत्र-५५-५७
न्या० स०-स्पृश०-दृपः साहचर्यात् तृपौच इत्यस्य ग्रहणं, कृषस्तु स्पृशमृशाभ्यां न साहचर्यमनिष्टे: । सकि प्राप्ते वचनमिति-ननु यथाऽयमङि सकि च प्राप्ते विधीयमानस्तयोः पक्षे बाधको भवत्येवं त्रिचोऽपि बाधकः प्राप्नोत्यस्मिन्नपि प्राप्तेऽस्य विधीयमानत्वादिति ? नैवं, * पूर्वे अपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् * इति न्यायात् ।
हशिटो नाम्युपान्त्याददृशोऽनिटः सक्॥ ३. ४.५५ ॥
हशिडन्तानाम्युपान्त्याद् दृशिवजितात् अनिटो धातोरद्यतन्यां परतः सक् प्रत्ययो भवति, सिचोऽपवादः । दुह -अधुक्षत् , विश-विक्षत , लिहलिशो:,-अलिक्षत, द्विषअद्विक्षत । हशिट इति किम् ? अभैत्सीत् । नाम्युपान्त्यादिति किम ? अधाक्षीत । अदृश इति किम् ? अद्राक्षीत् । अनिट इति किम् ? अकोषीत् । विकल्पितेटोऽपि पक्षेऽनिटत्वाद्भवति,-न्यधुक्षत् । अन्यत्र न भवति-न्यगृहीत् ॥ ५५ ।।।
न्या० स०-हशिटो:-सिचोऽपवाद इति-तस्मिन् प्राप्तेऽस्य विधानात् । अदृश इति किम् ? ननु परत्वात् पूर्वमकारागमे नाम्युपान्त्यभावात् सको न प्राप्तिस्तत्कि वर्जनेन ? नैवं, 'नशो धुटि' ४-४-१०९ इत्यतो धुटीत्यधिकारात् स्वरादिप्रत्यये 'अः सृजि' ४-४-१११ इत्यकारागमो नास्ति, ततो नाम्युपान्त्यत्वात् सकि व्यत्यदृक्षन्त इत्यनिष्टं स्यात् । सिचस्तु व्यञ्जनान्तत्वेनाऽनकारान्तत्वात् , 'अनतोऽन्तो' ४-२-११४ लुपि व्यत्यदक्षत इति, अमादौ च अदृक्षं व्यत्यदृक्षेतामित्यादि स्यात् , सिचि तु अद्राक्षं व्यत्यक्षातामिति भवति ।
श्लिषः॥ ३. ४. ५६॥
श्लिषो धातोरनिटोऽद्यतन्यां सक् प्रत्ययो भवति । आश्लिक्षत्कन्यां देवदत्तः, पण्यादित्वादङिप्राप्ते वचनम् * पुरस्तादपवादा अनन्तरान विधीन बाधन्ते नोत्तरान इत्यङ एव बाधो न जिचः । आश्लेषि कन्या देवदत्तेन । अनिट इत्येव ? श्लिष, दाह इत्यस्मात्सेटो माभूत्-अश्लेशोत् , अधाक्षीदित्यर्थः ।। ५६ ।।
नासत्त्वाऽऽश्लेषे ॥ ३. ४.५७॥
श्लिषो धातोरप्राण्याश्लेषे वर्तमानात सक् प्रत्ययो न भवति,-उपाश्लिषज्जतु च काष्ठं च, समाश्लिषद्गुरुकुलम् । पृथग्योगात्पूर्वेणापि प्राप्तः प्रतिषिध्यते, व्यत्यश्लिक्षन्त काष्ठानि । असत्वाश्लेष इति किम् ? व्यत्यश्लिक्षन्त मिथुनानि ॥ ५७ ॥
न्या० स०-नाऽसत्त्वा०:-* नन्वनन्तरस्य विधिः प्रतिषेधो वा * इति न्यायादनन्तरस्य सकोऽङ बाधकत्वात् परस्मैपदविषयस्यैव प्रतिषेधः प्राप्नोति, न तु क्रियाव्यतिहारे कर्तर्यात्मनेपदे प्रवर्त्तमानस्य 'हशिट०' ३-४-५५ इत्यस्येत्याशङ क्याह-पथग्योगादिति-यदि ह्यनन्तरविहितस्यैव प्रतिषेध: स्यात्तदा श्लिषोऽसत्त्वाश्लेषे इत्येकमेव योगं कुर्यात् ।
व्यत्यश्लिक्षन्त मिथुनानीति-अत्र प्राचः पूर्वस्मात् परो विधिः प्राविधिरित्यकारस्य स्थानित्वात् 'अनतोऽन्तो०' ४-२-११४ इत्यनेनादेशो न भवति ।