________________
पाद-३, सूत्र १०३-१०७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[३९
वाच्यमस्यापि नियमार्थं कस्मान्न भवति, विधिनियमसंभवे विधेरेव ज्यायस्त्वम् ।
प्रादहः॥ ३.३.१०३॥ प्रपूर्वाद्वहतेः कर्तरि परस्मैपदं भवति । प्रवहति ॥ १०३ ॥ परेषश्च ॥ ३. ३. १०४॥
परिपूर्वान्मषेर्वहेश्च कर्तरि परस्मैपदं भवति । परिमष्यति, परिवहति । मैत्रं परिमृष्यते धनं परिवहरी इत्यत्र न परिम॒षिवहिभ्यां संबध्यते । वहेर्नेच्छन्त्यन्ये ॥ १०४ ॥
व्यापरे रमः॥ ३. ३. १०५ ।।
व्यापरिभ्य: पराद्रमेः कर्तरि परस्मैपदं भवति । विरमति, आरमति, परिरमति । इदित्त्वादात्मनेपदस्यापवादः॥ १०५ ॥
वोपात् ।। ३.३.१०६ ॥
उपपूर्वाद्रमेः कर्तरि परस्मैपदं भवति वा । भार्यामुपरमति उपरमते वा । उपसंप्राप्तिपूविकायां रतौ वर्तमानोऽन्तर्भूतणिगर्थो वा रमिः सकर्मकः । उपरमति उपरमते वा संताप । उपरमति उपरमते वावद्यात् । उपाद्रमेः सकर्मकात्परस्मैपदमेवेत्येके । आत्मनेपदमेवेत्यन्ये ।।१०६॥
न्या० स०-वोपातः-उपरमरो वा संताप इति-निवृत्त्यर्थः पुररुपपूर्वोऽप्यकर्मक इति दर्शयति।
अणिगि प्राणिकर्तृ कानाप्याण्णिगः ॥ ३. ३. १०७॥
अणिगवस्थायां यः प्राणिकर्तृकोऽकर्मकश्च धातुस्तस्माण्णिगन्तात्कर्तरि परस्मैपदं भवति । आस्ते चैत्र आसयति चैत्रम् , शेते मैत्रः शाययति मैत्रम् । अणिगीति किम् । स्वयमेवारोहयमाणं हस्तिनं प्रयुङ्क्ते आरोहयते । अरिणगिति गकारः किम् ? णिजवस्थायां प्राणिकर्तृकानाप्यात णिगन्ताद्यथा स्यात् । चेतयमानं प्रयुक्त चेतयतीति । प्राणिकर्तृ केति किम् ? शुष्यन्ति व्रीहयः, शोषयते व्रोहीनातपः। 'प्राण्यौषषिवृक्षेभ्यः' (६-२-३१) इति पृथग्निर्देशादिहलोके प्रतीता एव प्राणिनो गद्यन्ते । अनाप्यादिति किम् ? कटं कुर्वाणं प्रयुङक्ते कटं कारयते । णिग इति किम् ? प्रास्ते, शेते । गकारः किम् ? अणिगवस्थायां प्राणिकर्तृकानाप्याप्णिजन्तान्माभूत् । चेतयते, 'ईगितः' ( ३-३-६५) इत्यात्मनेपदस्यापवादोऽयम् ॥ १०७॥
न्या० स० अणिगि०:-आरोहयत इति-आरोहयते हस्तिना हस्तिपक इति सकलप्रयोगः । अत्र चावस्थापञ्चकं पूर्ववत् विधाय षष्ठ्यामवस्थायां स्वयमेवारोहयमाणं हस्तिनं प्रयुङ क्ते, इत्यस्यां परस्मैपदं प्राप्तं तदणिगीति व्यावृत्त्या निषिध्यते ।
ननु द्वितीयस्यामवस्थायामारुह्यते हम्ती स्वयमेवेत्यस्यामणिगन्तायं धातुः प्राणिकर्तृकोऽनाप्यश्चास्ति तत्कथं न भवति परस्मैपदम् ? सत्यं, तदपेक्षया चतुर्थ्यामुत्पन्नमेवारोहयन्ति हस्तिनं हस्तिपका इति, प्रस्तुते त्वारोहते हस्ती स्वयमेवेत्यस्याः पञ्चम्या अवस्थाया अनन्तरं स्वयमेवारोहयमाणं हस्तिनं प्रयुङ क्ते इत्यस्यां षठ्यामवस्थायां णिगि