________________
४४० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-६९१-६९०
कणेर्डयिः ॥ ६६१॥ क्वण शब्दे, इत्यस्माद् डिद् अयिः प्रत्ययो भवति । क्वयिः-पक्षिविशेषः ॥६९१।। तङ्कि-वङ्कयङ्कि-मङ्कय हि-शयदि-सघशौ-वपि-वशिभ्यो रिः ॥ ६६२ ॥
एभ्यो रिः प्रत्ययो भवति । तकु कृच्छ्रजीवने । तङ क्रि:-युवा । वकुङ कौटिल्ये, वङ क्रि:-शल्यं, परशुका, रथः, अहः कुटिलश्च । अकुङ, लक्षणे, अक्रिः -चिह्नम् , वंशकठिनिकश्च । मकुङ मण्डने, मङक्रि:-मण्डनम् , शठः, प्रवकश्च । अहुङ, गती, अंहिःपादः, अङ घेरप्येके । अघुङ, गत्याक्षेपे, अङघ्रिः । शद्ल शातने, शद्रिः-वज्रः, भस्म, हस्ती, गिरिः, ऋषिः, शोभनश्च । अदंक भक्षणे, अद्रि:-पर्वतः। षद्ल विशरणादौ, सद्रिः-हस्ती, गिरिः, मेषश्च । अशौटि व्याप्ती, अश्रिः-कोटिः । डुवपी बीजसंताने, वप्रिःकेदारः । वशक् कान्तौ वश्रिः-समूहः ॥ ६६२ ।।
भू-सू-कुशि-विशि-शुभिभ्यः कित् ॥ ६६३ ॥
एभ्यः किद् रि प्रत्ययो भवति । भू सत्तायाम् , भूरि-प्रभूतं, काञ्चनं च । षूत् प्रेरणे, सूरिः-आचार्यः, पण्डितश्च । कुशच्-श्लेषणे, कुश्रिः-ऋषिः । विशंत् प्रवेशने, विश्रिः- मृत्युः, ऋषिश्च । शुभि दीप्तौ, शुभ्रिः-यतिः, विप्रः, दर्शनीयं, शुभं सत्यं च । ६९३।
जुषो-रश्च वः ॥ ६६४ ॥
जृष्च् जरसि, इत्यस्मात् किद् रिः प्रत्ययो भवति, ईरि सति रेफस्य वकारश्च भवति । जीविः-शरीरम् ।। ६९४ ॥
कुन्द्रि-कुद्रयादयः॥ ६६५॥
कुन्द्रयादयः शब्दा: किद् रिप्रत्ययान्ता निपात्यन्ते । कुपेः-कौतेश्च दश्चान्तः । कुन्द्रिः-ऋषिः । कुद्रिः-पर्वतः, ऋषिः समुद्रश्च । आदिग्रहणात् क्षौतेर्दोऽन्तः, क्षुद्रिः-समुद्रः । अर्तेर्गोऽन्तः, ऋग्रिः लोकनाथः । शकेः शक्रि:-बलवानित्यादयोऽपि भवन्ति ।। ६६५ ॥
रा-शदि-शकि-कद्यदिभ्यस्त्रिः ॥.६६६ ।।
एभ्यः त्रिः प्रत्ययो भवति । रांक दाने, रात्रिः-निशा । शलु शातने, शत्त्रिःकुञ्जरः, क्रौञ्चश्च । शक्लृट् शक्ती, शक्ति:-क्रौञ्चः, ऋषिश्च । कद वैक्लव्ये सौत्रः, कत्त्रिः-ऋषिः । अदंक भक्षणे, अत्त्रिः-ऋषिः ।। ६९६ ॥
पतेरत्रिः ॥ ६६७॥ पत्ल गतो, इत्यस्माद् अत्रिः प्रत्ययो भवति । पतत्रि:-पक्षी ॥ ६९७ ॥ नदि-वल्लयर्तिकृतेररिः । ६६ ॥ एभ्योऽरिः प्रत्ययो भवति । णद अव्यक्ते शब्दे, नदरिः-पटहः। वल्लि संवरणे,