________________
४३४ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-६३६-६४३
पृषि-हृषिभ्यां वृद्धिश्च ॥ ६३६ ॥
आभ्यां णिः प्रत्ययोऽनयोश्च वृद्धिर्भवति । पृषू सेचने, पाणिः-पादपश्चाद्भागा, पृष्ठप्रदेशश्च । हृषंच तुष्टौ, हाणिः -हरणम् ।। ६३६ ।।
हर्णिः-धूर्णि-भूर्णि-घूर्णादयः ॥ ६३७ ॥
एते णिप्रत्ययान्ता निपात्यन्ते । हग हरणे, धग धारणे, भू सत्तायाम् घं सेचने, ऊत्वं रश्चान्तो निपात्यते । हूणिः कुल्या। धूणिः-धृतिः। भूणिः-चेतनं, भूमिः, कालश्च । घूणिः-भ्रमः । आदिग्रहणादन्येऽपि ।। ६३७ ।।
ऋ-ह-स-मृधृ-भृ-क-तृ-ग्रहेरणिः ॥६३८॥
एभ्योऽणिः प्रत्ययो भवति । ऋक गतौ, अरणिः अग्निमन्थनकाष्ठम् । हग हरणे, हरणिः-कुल्या, मृत्युश्च । सृगतो, सरणिः-ईषद् गतिः, पन्थाः, आदित्यः, शिरा, संघातश्च । मत प्राणत्यागे, मरणिः-रात्रिः। धगधारणे, धरणि:-क्षितिः । टूभृग्क पोपणेच,भरणि:नक्षत्रम् । डुकृग् करणे, करणिः-सादृश्यम् । तृ प्लवन-तरणयोः, तरणिः-संक्रमः, आदित्यः, यवागूः, पतितगोरूपोत्थापनी च यष्टिः। वै दुःखार्थः, दुःखेन तीर्यत इति, वैतरणीनदी । ग्रहीश् उपादाने, ग्रहणिः-जठराग्निः, तदाधारो व्याधिः, मेढ़, मृत्युश्च ।। ६३८ ॥
कङ्केरिचास्य वा ॥ ६३६ ।। । ककुङ गतौ, इत्यस्माद् अणिः प्रत्ययो भवति, धातोरस्य चेकारो वा भवति । कङ्कणिः, कङ्कणम् , किङ्कणिः-घण्टा ।। ६३६ ।।
ककेर्णित् ॥ ६४०॥ ककि लौल्ये, इत्यस्माद् णिद् अणिः प्रत्ययो भवति । काकणिः-मानविशेषः ।६४०। कृषेश्च चादेः ॥ ६४१॥
कृषीत् विलेखने, इत्यस्माद् अणिः प्रत्ययो भवत्यादेश्च चकारो भवति । चर्षणिःचमूः, अग्निः, बुद्धिः, व्यवसाय:, वेश्या, वृषश्च ॥ ६४१ ।।
क्षिपेः कित् ॥ ६४२॥
क्षिपीत् प्रेरणे, इत्यस्मात् किद् अणिः प्रत्ययो भवति । क्षिपणिः-आयुधं, बडिशबन्धकः, कर्मकृता पाषाणसर्जनी च ॥ ६४२ ॥
आङ-कु-ह-शुषेः-सनः ॥ ६४३ ॥
आङः परेभ्यो डुकृग् करणे, हग हरणे, शुषंच शोषणे, इत्येतेभ्यः सन्नन्तेभ्योऽणिः प्रत्ययो भवति । आचिकार्षणिः-व्यवसायः। आजिहीर्षणिः-श्रीः। आशुशुक्षणि:-अग्निः, वायुश्च ।। ६४३ ॥