________________
४२८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-६०३-६०७
सोग आह च ॥ ६०३ ॥ सुपूर्वात् ब्रुतेः आः प्रत्ययो भवत्यस्य चाहादेशो भवति । स्वाहा-देवतातर्पणम् ।६०३। सनि-क्षमि-दुषेः ॥ ६०४॥
एभ्यो धातुभ्य आः प्रत्ययो भवति । षणूयी दाने, सना-नित्यम् । क्षमौषि सहने, क्षमा-भूः, शान्तिश्च । दुषंच वैकृत्ये, दोषा-रात्रिः ।। ६०४ ।।
डित् ॥ ६०५॥
धातोर्बहुलम् आः प्रत्ययो भवति, स च डिद् भवति । मनिच् ज्ञाने, मा-निषेधे । षोंच अन्तकर्मणि, सा-अवसानम् । अनक प्राणने, आ-स्मरणादौ । प्रीङ च् प्रीती, प्रा स्मयने । हनक हिंसागत्योः, हा-विषादे । वन भक्तो, वा-विकल्पे । रांक दाने, रा-दीप्तिः। भांक दीप्तौ, भा-कान्तिः सह पूर्वः सभा-परिषत् । नाम्नीति सहस्य सः ।। ६०५ ।।
स्वरेभ्य इः ॥ ६०६ ॥
स्वरान्तेभ्यो धातुभ्य इः प्रत्ययो भवति । जि अभिभवे, जयि:-राजा । हिंट गतिवृद्ध्योः , हयि:-कामः । रुक शब्दे, रविः-सूर्यः। कंक शब्दे, कवि:-काध्यकर्ता। ष्ट्रंग्क स्तुतौ, स्तविः-उद्गाता । लूग्श् छेदने, लविः-दात्रम् । पूग्श् पवने, पविः-वायुः, वज्र, पवित्रं च । भू सत्तायाम् , भविः-सत्ता, चन्द्रः, विधिश्च । ऋक् गतौ, अरि:-शत्रुः । हग हरणे, हरिः-इन्द्रः, विष्णुः, चन्दनम् , मर्कटादिश्च । हरय:-शक्राश्वाः । टुडुभृग्क् पोषणे च, भरिः-वसुधा । सृगतो, सरि:-मेघः । पृश् पालनपूरणयोः, परिः-भूमिः । तृ प्लवनतरणयोः, तरिः-नौः । दश् विदारणे, दरिः-महाभिदा । मृश् हिंसायाम् , ण्यन्तः, मारिःअशिवम् । वृश् िवरणे, वरिः-विष्णुः । ण्यन्ताद् वारिः-हस्तिबन्धनम् ; वारि-जलम् ।६०६॥
पदि-पठि-पचि-स्थलि-हलि-कलि-बलि-बलि-वल्लिं-पल्लि-कटि-चटि-वटि-बधिगाध्यचि-वन्दि-नन्धवि-वशि-वाशि-काशि-छर्दि--तन्त्रि-मन्त्रि--खण्डि-मण्डि-चण्डियत्यञ्जि-मस्यसि-वनि-ध्वनि-सनि-गमि-तमि-ग्रन्थि-श्रन्थि जनि-मण्यादिभ्यः ॥६०७॥
एभ्यः इः प्रत्ययो भवति । पदिच गतौं, पदि:-राशिः, मोक्षमार्गश्च । पठ व्यक्तायां वाचि, पठिः-विद्वान् । डुपचीष पाके, पचिः-अग्निः। ष्ठल स्थाने, स्थलि:-दानशाला । हल विलेखने, हलि:-हलः । कलि शब्द-संख्यानयोः, कलि:-कलहः, युगं च । बल प्राणनधान्यावरोधयोः, बलिः-देवतोपहारः दानवश्च । वलि-वल्लि संवरणे, वलिः-त्वक्तरङ्गः। वल्लि:-हिरण्य शलाका, लता च । पल्ल गतौ, पल्लि:-मुनीनामाश्रमः, व्याधसंस्त्यायश्च ।। कटे वर्षावरणयोः, कटिः-स्वाङ्गम् । चटण भेदे, चटि:-वर्णः। वट वेष्टने, वटि:-गुलिका, तन्तुः सूना च, नाभिः. वर्णश्च । बघि बन्धने, बधिः-क्रियाशब्दः । गाधृङ प्रतिष्ठालिप्साग्रन्थेषु, गाधिः-विश्वामित्रपिता । अर्च पूजायाम् , अचिः-अग्निशिखा । वदुङ स्तुत्यभिवादनयोः, वन्दिः-ग्रहणिः । टुनदु समृद्धौ, नन्दिः ईश्वरप्रतीहारः, भेरिश्च । अव रक्षणादौ, अविः-ऊर्णायुः । वशक् कान्ती, वशिः-वशिता। वाशिच् शब्दे, वाशिः-प्रकान्तिः, रश्मिः