________________
३९४ ]
स्वोपज्ञोणादिगण सूत्र विवरणम्
[ सूत्र- ३७८-३८६
वेतेस्तादिः ॥ ३७८ ॥
वीं प्रजनादी इत्यस्मात्तकारादिणिद् आलीयः प्रत्ययो भवति । वैतालीयंछन्दोजातिः ।। ३७८ ।।
धाग्-राजि-श-रमि-याज्यर्तेरन्यः ॥ ३७६ ॥
एभ्यः अन्यः प्रत्ययो भवति । डुधांग्क् धारणे च, धान्यं सस्यजातिः । राजुग् दीप्तौ, राजन्यः-ज्योतिः, अग्निः, क्षत्रियश्च । शृश् हिंसायाम् । शरण्य - त्राता । रमि क्रीडायाम्, रमण्यं - शोभनम् । यजीं देवपूजादौ, याजन्यः क्षत्रियः,
यज्ञश्च । ऋक् गतौ
अरण्यं वनम् ।। ३७६ ॥
हिरण्य-पर्जन्यादयः ।। ३८० ॥
हिरण्यादयः शब्दा अन्यप्रत्ययान्ता निपात्यन्ते । हरतेरिच्चातः । हिरण्यं - सुवर्णादि द्रव्यम् । परिपूर्वस्य पृष् सेचने इत्यस्योपसर्गान्तलोपो धातोश्च जः समस्तादेशः, गर्जतेर्वा कारस्य पकारः । पर्जन्यः - इन्द्र:, मेघः, शङ्कुः, पुण्यं कुशलं च कर्म । आदिग्रहणादन्येऽपि ॥ ३८० ॥
वदि-सहिभ्यामान्यः || ३८१ ॥
आभ्याम् आन्यः प्रत्ययो भवति । वद वक्तायां वाचि वदान्य:- दाता, गुणवान् चारुभाषी वा । षहि मर्षणे, सहान्यः शैलः ।। ३८१ ।।
वृङ एण्यः || ३८२ ॥
वृङ शू संभक्तौ, इत्यस्माद् एण्यः प्रत्ययो भवति । वरेण्यः परंब्रह्म, घाम, श्रेष्ठः, प्रजापतिः, अन्नं च ।। ३८२ ॥
मदेः स्यः ॥ ३८३ ॥
मदैच् हर्षे, इत्यस्मात् स्यः प्रत्ययो भवति । मत्स्य:- मीनः, धूर्तश्च ।। ३८३ ।। रुचि भुजिभ्यां किष्यः ॥ ३८४ ॥
रुचि - भुजिभ्यां किद् इष्यः प्रत्ययो भवति । रुचि अभिप्रीत्यां च रुचिष्य :वल्लभः, सुवर्णं च । भुजंप पालनाभ्यवहारयोः, भुजिष्यः- आचार्य:, भोक्ता, अन्नं, मृदु, ओदनः - दासश्च, भुजिष्यं - घनम् ।। ३८४ ।।
बच्यर्थिभ्यामुष्यः || ३८५ ॥
आभ्याम् उष्यः प्रत्ययो भवति । वचंकू भाषणे, वतुष्य:- वक्ता । अर्थणि उपयाचने, अर्थं यः अर्थी ।। ३८५ ।।
वचोऽध्य उत् च ॥ ३८६ ॥