________________
पाद- ४, सूत्र - ६१-६४ ]
श्री सिद्ध हेमचन्द्र शब्दानुशासने पंचमोऽध्यायः [ ३२९
शुष्कपेषं पेष्टव्यः, शुष्कपेषं पिष्यते, क्तादिभिरुक्तेऽपि व्याप्ये तदुपपदताऽस्त्येव । प्रयोगानुप्रयोग क्रिययोरैक्यात् तुल्यकर्तृ कत्वं प्राक्कालत्वं च नास्तीत्यत्र प्रकरणे पक्षे क्त्वा न भवति । घञादय एव तु भवन्ति-शुष्कस्य पेषं पिनष्टि, सामान्यविशेषभावविवक्षया च धातुसंबन्धः । यदाहुः - सामान्यपुषेरवयवपुषिः कर्म भवतीति । कश्चित् तु 'सामान्यविशेषविवक्षयाऽत्रापि क्रियाभेदोऽस्तीति तुल्यकर्तृकत्वं प्राक्कालत्वं च तेन क्त्वाऽपि, निमूलं कषित्वा कषति' इत्यादि मन्यते ।। ६० ।
न्या० स० - शुष्क चूर्ण - शुष्कपेषामित्यादि क्रियाविशेषणेभ्य: 'अव्ययस्य' ३-१-२१ इत्यमो लुप् । तदुपपदताऽस्त्येवेति - शुष्कलक्षण विशेषकर्मोपपदता ।
सामान्यविशेषभावविवक्षयेति-अन्यथा प्रयोगो हि यौगपद्येन नेष्यते इत्यर्थाभेदात्तस्यैव धातोरनुप्रयोगो न स्यात् ।
सामान्यपुषेरिति तै: 'स्वस्नेहन' ५ - ४ - ६५ इति सूत्रे एतदुक्तमत्र तु प्रकरणात् कथितमिति पुषेरिति संशोध्य पिषेरिति न कर्त्तव्यं, सामान्यपिषेरनुप्रयोगे पिनष्टीत्यत्र । कर्म भवतीति ननु शुष्कपेषमित्यादि क्रियाविशेषणं तत्कथं कर्म्म भवति ? सत्यं, तन्मते क्रियाविशेषणस्यापि कर्म्मता ।
ग- ग्रहोऽकृत - जीवात् ।। ५. ४.
६ १ ॥
'अकृत जीव' इत्येताभ्यां व्याप्याभ्यां पराभ्यां यथासंख्यं करोति- गृह्णातिभ्यां तस्यैव धातोः संबन्धे सति णम् वा भवति ।
प्रकृतकारं करोति, अकृतं करोतीत्यर्थः । जीवग्राहं गृह्णाति, जीवन्तं गृह्णातीत्यर्थः । ६१ ।
निमूलात् कषः ।। ५. ४. ६२ ॥
निमूलाद् व्याप्यात् परात् कषस्तस्यैव धातोः संबन्धे सति णम् वा भवति । निमूलमित्यत्रात्ययेऽव्ययीभावः, निर्गतानि मूलान्यस्येति बहुव्रीहिर्वा ।
निमूलकाषं कषति, निमूलं कषतीत्यर्थः, पक्षे - निमूलस्य काषं कषति ।। ६२ ।।
हनश्च समूलात् ।। ५. ४, ६३ ॥
समूलशब्दाद् व्याप्यात् पराद्धन्तेः कषेश्व तस्यैव धातोः संबन्धे सति णम् वा भवति । समूलमिति साकल्येऽव्ययीभावो बहुव्रीहिर्वा ।
समूलघातं हन्ति, समूलं हन्तीत्यर्थः । समूलकाषं कषति, समूलं कषतीत्यर्थः । ६३ ।
. करणेभ्यः ।। ५, ४. ६४॥
करणात् कारकात् पराद्धन्तेस्तस्यैव धातोः संबन्धे सति णम् वा भवति । पाणिघातं कुमाहन्ति, पादघातं शिलां हन्ति, पाणिना पावेन वा हन्तोत्यर्थः । बहुवचनं व्याप्त्यर्थम्,