________________
३२६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-५१-५४
र्थक्यं करोतेरन्यथादिभ्यः पृथगर्थाभावात् । यावदुक्तं भवति 'अन्यथा भुङ्क्ते' तावदुक्तं भवति 'अन्यथाकारं भक्ते' इति । अनर्थकादिति किम् ? अन्यथा कृत्वा शिरो भुङ्क्ते, अत्रान्यथाशब्द: शिरःप्रकारे, करोतेश्च शिरः कर्म, तन्न करोतिना विना गम्यत इति ।५०।
न्या० स०-अन्यथैवं-पक्षे क्त्वैवेति-'प्राक्काले' ५-४-४७ इत्यनेन एवमुत्तरत्रापि इति-यथाऽत्र वाधिकारात् पक्षे क्त्वा तथोत्तरत्रापीत्यर्थः, प्रथममऽन्यथात्वं पश्चाद् भुङक्ते इत्यत्रापि प्राक्कालः।
यथा-तथादीोत्तरे ॥ ५. ४. ५१ ॥
यथा-तथाशब्दाभ्यां परात् तुल्यकर्तृ केऽर्थे वर्तमानादनर्थकात् करोतेर्धातोः संबन्धे सति रुणम् वा भवति, ईर्योत्तरे-ईयश्चेत् पृच्छते उत्तरं ददाति ।
कथं भवान् भोक्ष्यत इति पृष्टोऽसूयसा तं प्रत्याह-यथाकारमहं भोक्ष्ये तथाकारमहं मोक्ष्ये कितवानेन, ? कि ते मया, यथाहं भोक्ष्ये तथाऽहं भोक्ष्ये इत्यर्थः । ईष्र्योत्तर इति किम् ? यथा कृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि । अनर्थकादित्येव ? यथा कृत्वाऽहं शिरो भोक्ष्ये तथा कृत्वाऽहं शिरो भोक्ष्ये किं तवानेन ? ॥५१॥
शापे व्याप्यात् ॥ ५. ४.५२॥
अनर्थकादिति निवृत्तम् , व्याप्यात कर्मणः पराव तुक्यकर्तृ केऽर्थे वर्तमानात् करोतेतोः संबन्धे रुणम् वा भवति, शापे-प्राक्क्रोशे गम्यमाने ।
बोकारमाकोशति, करोतिरिहोच्चारणे. चौरं कृत्वा-चौरशब्दमच्चाकोशति. चौरोऽसीत्याकोशतीत्यर्थः । एवं-दस्युकारमाकोशति, व्याधंकारमाक्रोशति । शाप इति किम् ? चौरं कृत्वा हेतुभिः कथयति ।।५२॥
न्या० स०-शापे व्याप्यादिति-अनर्थकादिति निवृत्तमिति-शापेऽसंभवात् व्याप्यादिति भणनाद् वा।
स्वादर्थाददीर्घात् ॥ ५. ४. ५३ ॥ __स्वादोरर्थे वर्तमानाच्छन्दाददीर्घान्ताद् व्याप्यात् परस्मात् तुल्यकर्तृ के वर्तमानात् करोतेर्धातोः संबन्धे रुणम् भवति वा।
स्वादुकारं भुङ्क्ते, संपन्नंकारं भुङ्क्ते, मिष्टंकारं भुङ्क्ते, लवणंकारं भुक्ते; पक्षे-स्वादु कृत्वा, मिष्टं, कृत्वा, लवणं कृत्वा, भुङ्क्ते । अदीर्घादिति किम् ? स्वाद्वी कृत्वा, स्वादूकृत्य, संपन्नां कृत्वा, यवागू भुङ्क्ते । 'स्वादुकारं यवागू भुङ्क्ते, अस्वादु स्वादु कृत्वा-स्वादुकारं भुङ्क्ते' इत्यत्र तु ङो-च्च्योविकल्पितत्वात् न दीर्घ इति भवति । 'संपन्नंकारं यवागू भुङ्क्ते' इति तु सामान्येन पदं निष्पाद्य पश्चाद् यवाग्वा संबन्धे भविष्यति ।५३।
विद्-दृग्भ्यः कात्स्न्य णम् ॥ ५. ४.५४ ॥