________________
३२४ ]
बृहवृत्ति लघुन्याससंवलिते
[पाद-४, सूत्र-४७-४८
अक्षिणी निमील्य हसति, मुखं व्यादाय स्वपिति, पादौ प्रसार्य पतति, दन्तान प्रकाश्य जल्पति, शिशुरयं मातरं भक्षयित्वोपजातः । मेङ्-अपमाय अपमित्य याचते, अपमातुं प्रतिदातु याचत इत्यर्थः, पूर्व ह्यसौ याचते पश्चादपमयत इति । याचेस्तु पूर्वकालेऽपि क्त्वा न भवति मेङ: परकालभाविन्या क्त्वया याचिप्राक्कालस्योक्तत्वात् । पक्षेयाचित्वाऽपमयते, अपमातु याचते । तुल्यकर्तृक इति किम् ? चैत्रस्याक्षिनिमीलने मैत्री हसति, चैत्रस्यापमाने मैत्रो याचते ॥४६॥
न्या० स०-निमील्यादिमे-मे व्यतिहार एव वर्तत इति-अपरे घातवो व्यतिपूर्वा व्यतिहारे वर्तन्तेऽयं तु स्वभावात् केवलोऽपीति नान्यैरिव व्यतिहारग्रहणमस्य विशेषकं कर्तव्यमित्यर्थः ।
अक्षिणी निमील्य हसतीति-निमीलने इति वाक्यं, अन्तर्भूतण्यर्थः सकर्मकः साक्षाण्णिगन्तो वा, अन्यथा तुल्यकर्तृ कत्वं न संगच्छेत, एवमुत्तरेऽपि ।
याचेस्तु पूर्वकालेऽपीति-नन्वेवमपि याचे: प्राक्कालवतित्वात् उत्तरेण कस्मात् क्त्वा न भवति? इत्याह-याचेस्त्वित्यादि-उत्तरेण हि प्राक्कालद्योतनाय क्त्वाप्रत्ययः क्रियते, याचेस्तु पूर्वकालत्तिता मेङ: परकालभाविन्या क्त्वया उक्तेति नैरर्थक्यात्ततः क्त्वा न भवति ।
प्राक्काले ॥ ५. ४. ४७॥ .
परकालेन धात्वर्थेन तुल्यकर्तृ के प्राक्कालेऽर्थे वर्तमानाद् धातोर्धातोः संबन्धे क्त्वा वा भवति ।
___ आसित्वा भुङ्क्ते, भुक्त्वा व्रजति, भुक्त्वा पुनर्भुङ्क्त, स्नात्वा भुक्त्वा पीत्वा व्रजति; पक्षे-आस्यते भोक्तुमित्यपि भवति । तुल्यकर्तृक इत्येव-भुक्तवति गुरौ शिष्यो व्रजति । प्राक्काल इति किम् ? भुज्यते पीयते चानेन । अथ 'यदनेन भुज्यते ततोऽयं पचति, यदनेनाधीयते ततोऽयं शेते' इत्यत्र कवं क्त्वा न भवति ? उच्यते-यत्र यच्छब्देन सह ततःशब्दः प्रयज्यते तत्र ततःशब्देनैव प्राक्कालताऽभिधीयत इत्युक्तार्थत्वात क्त्वा न भवति । 'यदनेन भुक्त्वा गम्यते ततोऽयमधीते' इत्यत्र तु भोजन-गमनयो: क्रमे क्त्वा, गमनाऽध्ययनयोस्तु ततःशब्देन क्रमस्याभिधानात गमेन भवति । "प्राक्काले" इत्युत्तरत्र यथासंभवमभिधानतोऽनुवर्तनीयम् ।।४७॥
न्या० स०-प्राक्काले-प्राक्पूर्वः कालोऽस्येति प्राक्कालस्तस्मिन् । आसित्वा भुङ्क्त इति-आसिक्रियाया वर्तमानत्वेऽपि भुजिक्रियाऽपेक्षया प्राक्काल्यं, अत एव क्त्वो विकल्पपक्षे आस्यते भोक्तुमित्यत्र वर्तमाना।
ख्णम् चाभीक्ष्ण्ये ॥ ५. ४.४८ ॥
प्राभीक्ष्ण्यविशिष्टे परकालेन तुल्यकर्तृ के प्राक्कालेऽर्थे वर्तमानाद् धातोर्धातोः संबन्धे रुणम्, चकारात् क्त्वा च भवति ।