________________
पाद-४, सूत्र २४-२६ ] . श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[३१५
अत्रापि सप्तमीनिमित्तमस्तीति भते भविष्यति च क्रियातिपतने नित्यं क्रियातिपत्तिः-संभावयामि नाभोक्ष्यत भवान् ।।२३॥
न्या० स०-अयदि श्रद्धा-यच्छब्दश्चेन्न प्रयुज्यते इति-क्रियाविशेषणत्वेन चेद् यच्छब्दो न प्रयुज्यते, हेत्वर्थे तु भवत्येव ।
पूर्वेण नित्यं प्राप्ते इति-'संभावने अलमर्थे' ५-४-२२ इत्यनेन । सतीच्छार्थात् ॥ ५. ४. २४ ॥ सति-वर्तमानेऽर्थे वर्तमानादिच्छार्थाद् धातोः सप्तमी वा भवति, पक्षे तु वर्तमानैव ।
इच्छेत् इच्छति, उश्यात् वष्टि, कामयेत कामयते, वाञ्छेत् वाञ्छति । "क्षेपेऽपिजात्वोर्वर्तमाना" (५-४-१२) इत्यादावपि परत्वादयमेवविकल्प:-अपि संयतः सन्नकल्प्यं सेवितुमिच्छेत् , अपि संयतः सन्नकल्प्यं सेवितुमिच्छति, धिग् गर्हामहे । भूत-भविष्यतोरभावात् सत्यपि सप्तमीनिमित्ते सत्यपि च क्रियातिपतने कियातिपत्तिर्न भवति ॥२४॥
वय॑ति हेतु-फले ॥ ५. ४. २५ ॥
हेतुः कारणं, फलं कार्यम्, हेतुभूते फलभूते च वय॑त्यर्थे वर्तमानाद् धातोः सप्तमी वा भवति ।
__ यदि गुरूनुपासीत शास्त्रान्तं गच्छेव , यदि गुरूनुपासिष्यते शास्त्रान्तं गमिष्यति, प्रत्र गुरूपासनं हेतुः, शास्त्रान्तगमनं फलम् । वय॑तीति किम् ? दक्षिणेन चेद् याति नं शकटं पर्याभवति । केचित् तु वा सर्वेषु कालेषु सर्वविभक्त्यपवादं सप्तमी मन्यन्ते-दक्षिणेन चेद् यायान्न शकटं पर्याभवेत्, दक्षिणेन चेद् यास्यति न शकटं पर्याभविष्यति, दक्षिणेन चेद् याति न शकटं पर्याभवति, दक्षिणेन चेदयासीन शकटं पर्याभूत । अत्रापि सप्तमीनिमित्तमस्तीति भविष्यति क्रियातिपतने क्रियातिपत्तिः-दक्षिणेन चेदयास्यन्न शकटं पर्याभविष्यत् । कथम्
"अमक्ष्यद् वसुधा तोये, च्युतशैलेन्द्रबन्धना ।
नारायण इव श्रीमान् यदि त्वं नाधरिष्यथाः ।" इति ? वय॑त्येवायं प्रयोगः । केचित् तु भूत इच्छन्ति । हनिष्यतीति पलायिष्यते वषिष्यतीति धाविष्यतीत्यत्र तु हेतुफल भावस्येतिशब्देनैव द्योतितत्वात् सप्तमी न भवति ॥२५॥
न्या० स०-वय॑ति हेतुफले-केचित्तु भूते इति-भूते हेतुफले सप्तमीमिच्छन्ति इत्यर्थः । हनिष्यतीति पलायिष्यते इति-बहुलाधिकारा तुहेतुमद्भावे शत्रानशौ न भवत इति ।
इतिशब्देनैव द्योतितत्वादिति-सप्तम्या हि हेतुफलभाव एव द्योत्यते स च इति' शब्देनैव द्योतितः ।
कामोक्तावकचिति ॥ ५. ४. २६ ॥